Critical Edition
अर्जुन उवाच अग्नीषोमौ कथं पूर्वमेकयोनी प्रवर्तितौ एष मे संशयो जातस्तं छिन्धि मधुसूदन
AI Translation: Arjuna said: How were Agni and Soma first made to proceed from one source? This doubt has arisen in me. O Madhusudana, please resolve it.
श्रीभगवानुवाच हन्त ते वर्तयिष्यामि पुराणं पाण्डुनन्दन आत्मतेजोद्भवं पार्थ शृणुष्वैकमना मम
AI Translation: The Blessed Lord said: I shall relate to you, O son of Pandu, the Purana, which has arisen from my own effulgence. O Partha, listen with a
संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात् अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः
AI Translation: At the time of the great deluge, when the fourth millennium had passed, when all beings had dissolved into the unmanifest, when the immobile and mobile had dissolved, when the world was a
निदर्शनमपि ह्यत्र भवति नासीदहो न रात्रिरासीत् न सदासीन्नासदासीत् तम एव पुरस्तादभवद्विश्वरूपम् सा विश्वस्य जननीत्येवमस्यार्थोऽनुभाष्यते
AI Translation: For here is an example: "There was no day, there was no night, there was no eternal, there was no non-eternal, that very darkness became the universal form in
तस्येदानीं तमःसंभवस्य पुरुषस्य पद्मयोनेर्ब्रह्मणः प्रादुर्भावे स पुरुषः प्रजाः सिसृक्षमाणो नेत्राभ्यामग्नीषोमौ ससर्ज ततो भूतसर्गे प्रवृत्ते प्रजाक्रमवशाद्ब्रह्मक्षत्रमुपातिष्ठत् यः सोमस्तद्ब्रह्म यद्ब्रह्म ते ब्राह्मणाः योऽग्निस्तत्क्षत्रं क्षत्राद्ब्रह्म बलवत्तरम् कस्मादिति लोकप्रत्यक्षगुणमेतत्तद्यथा ब्राह्मणेभ्यः परं भूतं नोत्पन्नपूर्वम् दीप्यमानेऽग्नौ जुहोतीति कृत्वा ब्रवीमि भूतसर्गः कृतो ब्रह्मणा भूतानि च प्रतिष्ठाप्य त्रैलोक्यं धार्यत इति
AI Translation: Now, when that Person, the source of darkness, the Lotus-born Brahma, appeared, that Person, desiring to create beings, created Agni and Soma from his eyes. Then, when the
मन्त्रवादोऽपि हि भवति त्वमग्ने यज्ञानां होता विश्वेषाम् हितो देवेभिर्मानुषे जने इति निदर्शनं चात्र भवति विश्वेषामग्ने यज्ञानां होतेति हितो देवैर्मानुषैर्जगत इति अग्निर्हि यज्ञानां होता कर्ता स चाग्निर्ब्रह्म
AI Translation: And the statement of the mantra is also: "You, O Agni, are the priest of all sacrifices, " "Beneficial to the gods and the human people." And here
न ह्यृते मन्त्राद्धवनमस्ति न विना पुरुषं तपः संभवति हविर्मन्त्राणां संपूजा विद्यते देवमनुष्याणामनेन त्वं होतेति नियुक्तः ये च मानुषा होत्राधिकारास्ते च ब्राह्मणस्य हि याजनं विधीयते न क्षत्रवैश्ययोर्द्विजात्योः तस्माद्ब्राह्मणा ह्यग्निभूता यज्ञानुद्वहन्ति यज्ञा देवांस्तर्पयन्ति देवाः पृथिवीं भावयन्ति
AI Translation: For without the mantra there is no sacrifice, and without the man there is no austerity. There is the worship of the sacrificial formulas and the gods and men. You are appointed as the Hot
शतपथे हि ब्राह्मणं भवति अग्नौ समिद्धे स जुहोति यो विद्वान्ब्राह्मणमुखे दानाहुतिं जुहोति एवमप्यग्निभूता ब्राह्मणा विद्वांसोऽग्निं भावयन्ति अग्निर्विष्णुः सर्वभूतान्यनुप्रविश्य प्राणान्धारयति अपि चात्र सनत्कुमारगीताः श्लोका भवन्ति
AI Translation: For in the Shatapatha Brahmana it is said: "He who, knowing this, offers a gift to the mouth of the Brahmana, offers it into the kindled fire." "
विश्वं ब्रह्मासृजत्पूर्वं सर्वादिर्निरवस्करम् ब्रह्मघोषैर्दिवं तिष्ठन्त्यमरा ब्रह्मयोनयः
AI Translation: The universe was created by Brahma in the beginning, the beginning of all, the remover of all. The gods, the offspring of Brahma, dwell in heaven with the sound of Brahma.
ब्राह्मणानां मतिर्वाक्यं कर्म श्रद्धा तपांसि च धारयन्ति महीं द्यां च शैत्याद्वार्यमृतं यथा
AI Translation: The intellect, speech, deeds, faith, and austerities of the Brahmanas support the earth and the sky, like water and nectar through coolness.
नास्ति सत्यात्परो धर्मो नास्ति मातृसमो गुरुः ब्राह्मणेभ्यः परं नास्ति प्रेत्य चेह च भूतये
AI Translation: There is no Dharma greater than truth, no teacher greater than one's mother, There is nothing greater than Brahmins for the attainment of the goal in this world and the next.
नैषामुक्षा वर्धते नोत वाहा; न गर्गरो मथ्यते संप्रदाने अपध्वस्ता दस्युभूता भवन्ति; येषां राष्ट्रे ब्राह्मणा वृत्तिहीनाः
AI Translation: Their cattle do not thrive, nor their horses, nor are their milk-pails churned for butter at the distribution of gifts. They become outcasts, become outcasts, become outcasts
वेदपुराणेतिहासप्रामाण्यान्नारायणमुखोद्गताः सर्वात्मानः सर्वकर्तारः सर्वभावनाश्च ब्राह्मणाः वाक्समकालं हि तस्य देवस्य वरप्रदस्य ब्राह्मणाः प्रथमं प्रादुर्भूता ब्राह्मणेभ्यश्च शेषा वर्णाः प्रादुर्भूताः इत्थं च सुरासुरविशिष्टा ब्राह्मणा यदा मया ब्रह्मभूतेन पुरा स्वयमेवोत्पादिताः सुरासुरमहर्षयो भूतविशेषाः स्थापिता निगृहीताश्च
AI Translation: The Vedas, the Puranas and the Itihasas being authoritative, the Brahmanas are the mouth-born sons of Narayana, the all-souls, the all-creators,
अहल्याधर्षणनिमित्तं हि गौतमाद्धरिश्मश्रुतामिन्द्रः प्राप्तः कौशिकनिमित्तं चेन्द्रो मुष्कवियोगं मेषवृषणत्वं चावाप अश्विनोर्ग्रहप्रतिषेधोद्यतवज्रस्य पुरंदरस्य च्यवनेन स्तम्भितो बाहुः क्रतुवधप्राप्तमन्युना च दक्षेण भूयस्तपसा चात्मानं संयोज्य नेत्राकृतिरन्या ललाटे रुद्रस्योत्पादिता
AI Translation: For the sake of the molestation of Ahalya, Indra was brought to the presence of Gautama by Harishmashra. And for the sake of Koushika, Indra lost his
त्रिपुरवधार्थं दीक्षामभ्युपगतस्य रुद्रस्योशनसा शिरसो जटा उत्कृत्य प्रयुक्ताः ततः प्रादुर्भूता भुजगाः तैरस्य भुजगैः पीड्यमानः कण्ठो नीलतामुपनीतः पूर्वे च मन्वन्तरे स्वायंभुवे नारायणहस्तबन्धग्रहणान्नीलकण्ठत्वमेव वा
AI Translation: The matted locks of Rudra, who had undertaken the initiation for the destruction of Tripura, were cut off by Usanas and used as missiles. Then serpents appeared. His throat, being
अमृतोत्पादने पुरश्चरणतामुपगतस्याङ्गिरसो बृहस्पतेरुपस्पृशतो न प्रसादं गतवत्यः किलापः अथ बृहस्पतिरपां चुक्रोध यस्मान्ममोपस्पृशतः कलुषीभूता न प्रसादमुपगतास्तस्मादद्यप्रभृति झषमकरमत्स्यकच्छपजन्तुसंकीर्णाः कलुषीभवतेति तदाप्रभृत्यापो यादोभिः संकीर्णाः संवृत्ताः
AI Translation: The waters, while being used by Angiras, the son of Brihaspati, for the purpose of producing nectar, did not become clear. Then Brihaspati became angry with the waters.
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानामासीत्स्वस्रीयोऽसुराणाम् स प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमसुरेभ्यः
AI Translation: Viśvarūpa, the son of Tvaṣṭṛ, was the priest of the gods, and his brother of the Asuras. He gave the gods their share openly, and
अथ हिरण्यकशिपुं पुरस्कृत्य विश्वरूपमातरं स्वसारमसुरा वरमयाचन्त हे स्वसरयं ते पुत्रस्त्वाष्ट्रो विश्वरूपस्त्रिशिरा देवानां पुरोहितः प्रत्यक्षं देवेभ्यो भागमददत्परोक्षमस्माकम् ततो देवा वर्धन्ते वयं क्षीयामः तदेनं त्वं वारयितुमर्हसि तथा यथास्मान्भजेदिति
AI Translation: Then the Asuras, having placed Hiranyakaśipu in front, requested his sister, the mother of Viśvarūpa, for a boon: "O sister! Your son T
अथ विश्वरूपं नन्दनवनमुपगतं मातोवाच पुत्र किं परपक्षवर्धनस्त्वं मातुलपक्षं नाशयसि नार्हस्येवं कर्तुमिति स विश्वरूपो मातुर्वाक्यमनतिक्रमणीयमिति मत्वा संपूज्य हिरण्यकशिपुमगात्
AI Translation: Then, when Viśvarūpa went to the Nandana garden, his mother said to him: "Son, are you increasing the power of your enemies? Are you destroying the power of
हैरण्यगर्भाच्च वसिष्ठाद्धिरण्यकशिपुः शापं प्राप्तवान् यस्मात्त्वयान्यो वृतो होता तस्मादसमाप्तयज्ञस्त्वमपूर्वात्सत्त्वजाताद्वधं प्राप्स्यसीति तच्छापदानाद्धिरण्यकशिपुः प्राप्तवान्वधम्
AI Translation: From Hiranyagarbha, Vasishtha, Hiranyakasipu received a curse. "Because you have chosen another as the officiating priest, therefore, your sacrifice will not be completed, and
विश्वरूपो मातृपक्षवर्धनोऽत्यर्थं तपस्यभवत् तस्य व्रतभङ्गार्थमिन्द्रो बह्वीः श्रीमत्योऽप्सरसो नियुयोज ताश्च दृष्ट्वा मनः क्षुभितं तस्याभवत्तासु चाप्सरःसु नचिरादेव सक्तोऽभवत् सक्तं चैनं ज्ञात्वाप्सरस ऊचुर्गच्छामहे वयं यथागतमिति
AI Translation: Vishvarupa, the increaser of the maternal side, was engaged in severe austerities. For the purpose of breaking his vow, Indra employed many wealthy apsaras. Seeing them, his
तास्त्वाष्ट्र उवाच क्व गमिष्यथ आस्यतां तावन्मया सह श्रेयो भविष्यतीति तास्तमब्रुवन् वयं देवस्त्रियोऽप्सरस इन्द्रं वरदं पुरा प्रभविष्णुं वृणीमह इति
AI Translation: Tvaṣṭra said to them: "Where are you going? Stay here for a while. It will be better for you to be with me."" "They said to him:
अथ ता विश्वरूपोऽब्रवीदद्यैव सेन्द्रा देवा न भविष्यन्तीति ततो मन्त्राञ्जजाप तैर्मन्त्रैः प्रावर्धत त्रिशिराः एकेनास्येन सर्वलोकेषु द्विजैः क्रियावद्भिर्यज्ञेषु सुहुतं सोमं पपावेकेनाप एकेन सेन्द्रान्देवान् अथेन्द्रस्तं विवर्धमानं सोमपानाप्यायितसर्वगात्रं दृष्ट्वा चिन्तामापेदे
AI Translation: Then he said to them, "To-day the gods with Indra shall not exist." Then he muttered spells. By those spells he grew to be three-headed. By one mouth
देवाश्च ते सहेन्द्रेण ब्रह्माणमभिजग्मुरूचुश्च विश्वरूपेण सर्वयज्ञेषु सुहुतः सोमः पीयते वयमभागाः संवृत्ताः असुरपक्षो वर्धते वयं क्षीयामः तदर्हसि नो विधातुं श्रेयो यदनन्तरमिति
AI Translation: And the gods, with Indra, approached Brahma and said: "The Soma is drunk in all sacrifices with the Vishvarupa form, well offered. We have become without a share.
तान्ब्रह्मोवाच ऋषिर्भार्गवस्तपस्तप्यते दधीचः स याच्यतां वरं यथा कलेवरं जह्यात् तस्यास्थिभिर्वज्रं क्रियतामिति
AI Translation: Brahma said to them: "The sage Dadhicha, the son of Bhrigu, is performing austerities. He should be requested for a boon so that he may give up his body.
देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम् यद्वक्ष्यथ तत्करिष्यामीति ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार
AI Translation: The gods came there where the revered sage Dadhicha was performing austerities. The gods with Indra approached him and said, "Revered one, is your penance well and without obstacles?"
Supplementary Passages:
12.329.26 After 26 5, D7 T G1-3.6 Kumbh. ed. ins.: *871 एवमुक्तो दधीचस्तानब्रवीत् ।1। सहस्रं वर्षाणाम् ऐन्द्रं पदमवाप्यते मया यदि जह्याम् ।2। तथेत्युक्त्वेन्द्रः स्वस्थानं दत्त्वा तपस्व्यभवत् ।3। इन्द्रो दधीचोऽभवत् ।4। तावत्पूर्णे सेन्द्रा देवा आगमन्कालोऽयं देहन्यासायेति ।5। After 26, Kumbh. ed. ins.: *872 श्रुतिरप्यत्र भवति । इन्द्रो दधीचोऽस्थिभिः कृतम् (Ṛv. 1.84.13a) इति ।
तस्य परमात्मन्यवसृते तान्यस्थीनि धाता संगृह्य वज्रमकरोत् तेन वज्रेणाभेद्येनाप्रधृष्येण ब्रह्मास्थिसंभूतेन विष्णुप्रविष्टेनेन्द्रो विश्वरूपं जघान शिरसां चास्य छेदनमकरोत् तस्मादनन्तरं विश्वरूपगात्रमथनसंभवं त्वष्ट्रोत्पादितमेवारिं वृत्रमिन्द्रो जघान
AI Translation: When the Supreme Self had departed from him, the bones of that demon were collected by the Creator and made into a thunderbolt. With that thunderbolt, which was unbreakable, invincible, made of the
Supplementary Passages:
12.329.27 After 27 3, D7 T G1-3.6 Kumbh. ed. Cv ins.: *873 तक्ष्णा यज्ञपशोः शिरस्ते ददामीत्युक्त्वा
तस्यां द्वैधीभूतायां ब्रह्मवध्यायां भयादिन्द्रो देवराज्यं परित्यज्य अप्सु संभवां शीतलां मानससरोगतां नलिनीं प्रपेदे तत्र चैश्वर्ययोगादणुमात्रो भूत्वा बिसग्रन्थिं प्रविवेश
AI Translation: When the curse was divided into two parts, Indra, the king of gods, fearing the curse, left the kingdom of gods and went to the cool waters of Manasarovar lake. There,
अथ ब्रह्मवध्याभयप्रनष्टे त्रैलोक्यनाथे शचीपतौ जगदनीश्वरं बभूव देवान्रजस्तमश्चाविवेश मन्त्रा न प्रावर्तन्त महर्षीणाम् रक्षांसि प्रादुरभवन् ब्रह्म चोत्सादनं जगाम अनिन्द्राश्चाबला लोकाः सुप्रधृष्या बभूवुः
AI Translation: Then, when the Lord of the three worlds, the husband of Shachi, had disappeared through fear of the sin of killing a Brahmin, the world became without a lord. The gods were overcome
अथ देवा ऋषयश्चायुषः पुत्रं नहुषं नाम देवराजत्वेऽभिषिषिचुः नहुषः पञ्चभिः शतैर्ज्योतिषां ललाटे ज्वलद्भिः सर्वतेजोहरैस्त्रिविष्टपं पालयां बभूव अथ लोकाः प्रकृतिमापेदिरे स्वस्थाश्च बभूवुः
AI Translation: Then the gods and the sages consecrated Nahusha, the son of Ayus, as the king of the gods. Nahusha ruled the heaven with five hundred blazing rays on his forehead, which robbed
अथोवाच नहुषः सर्वं मां शक्रोपभुक्तमुपस्थितमृते शचीमिति स एवमुक्त्वा शचीसमीपमगमदुवाच चैनाम् सुभगेऽहमिन्द्रो देवानां भजस्व मामिति तं शची प्रत्युवाच प्रकृत्या त्वं धर्मवत्सलः सोमवंशोद्भवश्च नार्हसि परपत्नीधर्षणं कर्तुमिति
AI Translation: Then Nahusha said: "All this has been enjoyed by me, except Shachi."" Having said this, he went near Shachi and said to her: "O beautiful one!
तामथोवाच नहुषः ऐन्द्रं पदमध्यास्यते मया अहमिन्द्रस्य राज्यरत्नहरो नात्राधर्मः कश्चित्त्वमिन्द्रभुक्तेति सा तमुवाच अस्ति मम किंचिद्व्रतमपर्यवसितम् तस्यावभृथे त्वामुपगमिष्यामि कैश्चिदेवाहोभिरिति स शच्यैवमभिहितो नहुषो जगाम
AI Translation: Then Nahusha said to her: "I am going to occupy the place of Indra." "I am the one who has taken the jewel of Indra's kingdom, there is no un
अथ शची दुःखशोकार्ता भर्तृदर्शनलालसा नहुषभयगृहीता बृहस्पतिमुपागच्छत् स च तामभिगतां दृष्ट्वैव ध्यानं प्रविश्य भर्तृकार्यतत्परां ज्ञात्वा बृहस्पतिरुवाच अनेनैव व्रतेन तपसा चान्विता देवीं वरदामुपश्रुतिमाह्वय सा तवेन्द्रं दर्शयिष्यतीति
AI Translation: Then Śacī, afflicted by grief and sorrow, longing to see her husband, seized by fear of Nahuṣa, approached Brihaspati. And he, seeing her approach, entered
साथ महानियममास्थिता देवीं वरदामुपश्रुतिं मन्त्रैराह्वयत् सोपश्रुतिः शचीसमीपमगात् उवाच चैनामियमस्मि त्वयोपहूतोपस्थिता किं ते प्रियं करवाणीति तां मूर्ध्ना प्रणम्योवाच शची भगवत्यर्हसि मे भर्तारं दर्शयितुं त्वं सत्या मता चेति सैनां मानसं सरोऽनयत् तत्रेन्द्रं बिसग्रन्थिगतमदर्शयत्
AI Translation: With her, she observed great restraints and invoked the goddess Upaśruti with mantras, seeking a boon. Upaśruti approached Śacī. And she said to her,
तामिन्द्रः पत्नीं कृशां ग्लानां च दृष्ट्वा चिन्तयां बभूव अहो मम महद्दुःखमिदमद्योपगतम् नष्टं हि मामियमन्विष्योपागमद्दुःखार्तेति तामिन्द्र उवाच कथं वर्तयसीति सा तमुवाच नहुषो मामाह्वयति कालश्चास्य मया कृत इति
AI Translation: Seeing his wife thin and sick, Indra thought: "Oh, this great sorrow has befallen me today. For this woman, who was to be my companion, has come to me in
तामिन्द्र उवाच गच्छ नहुषस्त्वया वाच्योऽपूर्वेण मामृषियुक्तेन यानेन त्वमधिरूढ उद्वहस्व इन्द्रस्य हि महान्ति वाहनानि मनसः प्रियाण्यधिरूढानि मया त्वमन्येनोपयातुमर्हसीति सैवमुक्ता हृष्टा जगाम इन्द्रोऽपि बिसग्रन्थिमेवाविवेश भूयः
AI Translation: She said to him: "Go and tell Nahusha: 'You are to ride in a chariot drawn by the sages, which is not seen before. "For Indra's vehicles are
अथेन्द्राणीमभ्यागतां दृष्ट्वोवाच नहुषः पूर्णः स काल इति तं शच्यब्रवीच्छक्रेण यथोक्तम् स महर्षियुक्तं वाहनमधिरूढः शचीसमीपमुपागच्छत्
AI Translation: Then, seeing Indrani come, Nahusha said, "The time is full." She said to him what was said by Indra. He, having mounted a vehicle yoked with great sages
अथ मैत्रावरुणिः कुम्भयोनिरगस्त्यो महर्षीन्विक्रियमाणांस्तान्नहुषेणापश्यत् पद्भ्यां च तेनास्पृश्यत ततः स नहुषमब्रवीदकार्यप्रवृत्त पाप पतस्व महीम् सर्पो भव यावद्भूमिर्गिरयश्च तिष्ठेयुस्तावदिति स महर्षिवाक्यसमकालमेव तस्माद्यानादवापतत्
AI Translation: Then Maitrāvaruṇi, the son of Kumbha, Agastya, seeing the great sages being humiliated by Nahusha, and being touched by him with his feet, then
अथानिन्द्रं पुनस्त्रैलोक्यमभवत् ततो देवा ऋषयश्च भगवन्तं विष्णुं शरणमिन्द्रार्थेऽभिजग्मुः ऊचुश्चैनं भगवन्निन्द्रं ब्रह्मवध्याभिभूतं त्रातुमर्हसीति ततः स वरदस्तानब्रवीदश्वमेधं यज्ञं वैष्णवं शक्रोऽभियजतु ततः स्वं स्थानं प्राप्स्यतीति
AI Translation: Then Indra again became the lord of the three worlds. Then the gods and the sages, for the sake of Indra, sought refuge in the Blessed Lord Vishnu. And they said to him,
ततो देवा ऋषयश्चेन्द्रं नापश्यन्यदा तदा शचीमूचुर्गच्छ सुभगे इन्द्रमानयस्वेति सा पुनस्तत्सरः समभ्यगच्छत् इन्द्रश्च तस्मात्सरसः समुत्थाय बृहस्पतिमभिजगाम बृहस्पतिश्चाश्वमेधं महाक्रतुं शक्रायाहरत् ततः कृष्णसारङ्गं मेध्यमश्वमुत्सृज्य वाहनं तमेव कृत्वा इन्द्रं मरुत्पतिं बृहस्पतिः स्वस्थानं प्रापयामास
AI Translation: Then the gods and the sages, not seeing Indra, said to Shachi, "O beautiful one, go and bring Indra back." She again approached that lake. And Indra, rising from
ततः स देवराड्देवैरृषिभिः स्तूयमानस्त्रिविष्टपस्थो निष्कल्मषो बभूव ब्रह्मवध्यां चतुर्षु स्थानेषु वनिताग्निवनस्पतिगोषु व्यभजत् एवमिन्द्रो ब्रह्मतेजःप्रभावोपबृंहितः शत्रुवधं कृत्वा स्वस्थानं प्रापितः
AI Translation: Then the lord of the gods, being praised by the gods and sages, became free from sin while dwelling in heaven. And he divided the sin of killing a Brahmin into four places: women,
Supplementary Passages:
12.329.41 After 41 2, D7 T G1-3.6 Cs.v ins.: *874 वनितासु रजः । वृक्षेषु निर्यासः । गिरिषु शम्बः । पृथिव्यामूषराः ।1। तेऽस्पृश्याः ।2। तस्माद्धविरलवणं पच्यते ।3॥ On the other hand, D7 T1 G1.3.6 Kumbh. ed. ins. after 41: *875 नहुषस्य शापमोक्षनिमित्तं देवैरृषिभिर्याच्यमानोऽगस्त्यः प्राह । यावत्स्वकुलजः श्रीमान्धर्मराजो युधिष्ठिरः कथयित्वा स्वकान्प्रश्नान्स्वं भीमं च विमोक्ष्यते ।
आकाशगङ्गागतश्च पुरा भरद्वाजो महर्षिरुपास्पृशंस्त्रीन्क्रमान्क्रमता विष्णुनाभ्यासादितः स भरद्वाजेन ससलिलेन पाणिनोरसि ताडितः सलक्षणोरस्कः संवृत्तः
AI Translation: Formerly, the great sage Bharadvaja, who had come from the sky, touched three steps while walking, and was embraced by Vishnu. He, Bharadvaja, was struck on
भृगुणा महर्षिणा शप्तोऽग्निः सर्वभक्षत्वमुपनीतः
AI Translation: Agni was cursed by the great sage Bhrigu to become an eater of everything.
अदितिर्वै देवानामन्नमपचदेतद्भुक्त्वासुरान्हनिष्यन्तीति तत्र बुधो व्रतचर्यासमाप्तावागच्छत् अदितिं चावोचद्भिक्षां देहीति तत्र देवैः पूर्वमेतत्प्राश्यं नान्येनेत्यदितिर्भिक्षां नादात् अथ भिक्षाप्रत्याख्यानरुषितेन बुधेन ब्रह्मभूतेन विवस्वतो द्वितीये जन्मन्यण्डसंज्ञितस्याण्डं मारितमदित्याः स मार्तण्डो विवस्वानभवच्छ्राद्धदेवः
AI Translation: Aditi, the mother of the gods, was preparing food for them, thinking that after eating it they would slay the Asuras. At that time, Budha, who had completed his vow
Supplementary Passages:
12.329.44 After brahma- bhūtena, K6.7 V1 Dn1.n4 Ds D2-5.7-9 Cs Kumbh. ed. ins.: *876 अदितिः शप्ता अदितेरुदरे भविष्यति व्यथा
दक्षस्य वै दुहितरः षष्टिरासन् ताभ्यः कश्यपाय त्रयोदश प्रादाद्दश धर्माय दश मनवे सप्तविंशतिमिन्दवे तासु तुल्यासु नक्षत्राख्यां गतासु सोमो रोहिण्यामभ्यधिकां प्रीतिमकरोत् ततस्ताः शेषाः पत्न्य ईर्ष्यावत्यः पितुः समीपं गत्वेममर्थं शशंसुः भगवन्नस्मासु तुल्यप्रभावासु सोमो रोहिणीमधिकं भजतीति सोऽब्रवीद्यक्ष्मैनमावेक्ष्यतीति
AI Translation: Dakṣa had sixty daughters. Of these, he gave thirteen to Kaśyapa, ten to Dharma, ten to Manu, and twenty-seven to Indra. When they were equal
दक्षशापात्सोमं राजानं यक्ष्माविवेश स यक्ष्मणाविष्टो दक्षमगमत् दक्षश्चैनमब्रवीन्न समं वर्तस इति तत्रर्षयः सोममब्रुवन्क्षीयसे यक्ष्मणा पश्चिमस्यां दिशि समुद्रे हिरण्यसरस्तीर्थम् तत्र गत्वात्मानमभिषेचयस्वेति अथागच्छत्सोमस्तत्र हिरण्यसरस्तीर्थम् गत्वा चात्मनः स्नपनमकरोत् स्नात्वा चात्मानं पाप्मनो मोक्षयामास तत्र चावभासितस्तीर्थे यदा सोमस्तदाप्रभृति तीर्थं तत्प्रभासमिति नाम्ना ख्यातं बभूव तच्छापादद्यापि क्षीयते सोमोऽमावास्यान्तरस्थः पौर्णमासीमात्रेऽधिष्ठितो मेघलेखाप्रतिच्छन्नं वपुर्दर्शयति मेघसदृशं वर्णमगमत्तदस्य शशलक्ष्म विमलमभवत्
AI Translation: Soma, the king, was afflicted with consumption due to a curse from Daksha. Afflicted with consumption, he went to Daksha. And Daksha said to him, "You are
स्थूलशिरा महर्षिर्मेरोः प्रागुत्तरे दिग्भागे तपस्तेपे तस्य तपस्तप्यमानस्य सर्वगन्धवहः शुचिर्वायुर्विवायमानः शरीरमस्पृशत् स तपसा तापितशरीरः कृशो वायुनोपवीज्यमानो हृदयपरितोषमगमत् तत्र तस्यानिलव्यजनकृतपरितोषस्य सद्यो वनस्पतयः पुष्पशोभां न दर्शितवन्त इति स एताञ्शशाप न सर्वकालं पुष्पवन्तो भविष्यथेति
AI Translation: The great sage Sthūlashira, in the north-east direction of Meru, was practising austerities. While he was practising austerities, the pure wind, carrying all the scents
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत् तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः उक्तश्चापेयो भविष्यसि एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते
AI Translation: In olden times, Narayana, for the welfare of the world, was a great sage named Vadavamukha. When he was performing austerities on Meru, the ocean was summoned but
Supplementary Passages:
12.329.48 After 48, D7 T G1-3.6 Kumbh. ed. ins.: *877 पुनरुमा दक्षकोपाद्धिमवतो गिरेर्दुहिता बभूव
हिमवतो गिरेर्दुहितरमुमां रुद्रश्चकमे भृगुरपि च महर्षिर्हिमवन्तमागम्याब्रवीत्कन्यामुमां मे देहीति तमब्रवीद्धिमवानभिलषितो वरो रुद्र इति तमब्रवीद्भृगुर्यस्मात्त्वयाहं कन्यावरणकृतभावः प्रत्याख्यातस्तस्मान्न रत्नानां भवान्भाजनं भविष्यतीति अद्यप्रभृत्येतदवस्थितमृषिवचनम्
AI Translation: The god Rudra desired the daughter of the Himālaya mountain, Umā. And the great sage Bhṛgu, having come to the Himālaya, said to him: "Give
तदेवंविधं माहात्म्यं ब्राह्मणानाम् क्षत्रमपि शाश्वतीमव्ययां पृथिवीं पत्नीमभिगम्य बुभुजे तदेतद्ब्रह्माग्नीषोमीयम् तेन जगद्धार्यते
AI Translation: Thus is the greatness of Brahmanas. The Kshatriyas, having approached the eternal and imperishable earth as their wife, enjoyed. This is the Brahmagni-Soma sacrifice.