Critical Edition
वैशंपायन उवाच तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत् सुकुमारं समाज्ञातं संग्रामे नातिकोविदम्
M. N. Dutt: Vaishampayana said Having approached the Shami tree and found out that the son of Virata was highly delicate and inexperienced in battle Partha said to him.
Supplementary Passages:
4.38.1 After 1, S ins.: *689 एहि भूमिंजयारुह्य वैराटे महतीं शमीम्
समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्
M. N. Dutt: Commanded by me, O Uttara, bring down some arrows that are on the tree. These your shafts cannot stand my strength.
भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम् मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः
AI Translation: To carry a heavy load, or to crush an elephant, or to throw my arms about, or to conquer my enemies,
Supplementary Passages:
4.38.3 After 3, S ins.: *690 नैभिः काममहं कर्तुं कर्म वैजयिकं त्विह अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च आयुधानि महाबाहो तवैतानि परंतप
तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम् अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत
AI Translation: Therefore, O Bhīma, climb this Śamī tree, which is full of leaves. For, the bows of the sons of Pandu are hidden in it.
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च
M. N. Dutt: Therefore, O prince, climb this tree full of fruits for in it are tied the bows, shafts, banners and beautiful armours of the heroic sons of Pandu, Yudhishthira, Bhima, Arjuna and the twins.
अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम् एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
M. N. Dutt: There is also the mighty bow, Gandiva, of Partha, which alone is equal to hundred thousand of others and is capable of extending kingdom.
व्यायामसहमत्यर्थं तृणराजसमं महत् सर्वायुधमहामात्रं शत्रुसंबाधकारकम्
AI Translation: Able to withstand exertion, as great as the king of grass, The great lord of all weapons, causing obstruction to enemies,
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम् अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम् तादृशान्येव सर्वाणि बलवन्ति दृढानि च
AI Translation: Made of gold, divine, smooth, long, and without wounds, Able to bear a heavy load, terrible, and beautiful to behold, All of them were like that, strong and firm.
Supplementary Passages:
4.38.8 After 8, N repeats 5ab (v.l.: Ś1 K yamayor api cottara; B1-4 D1-3.5-10 -ś ca tathottara for b); while S ins.: *691 प्रधानानि विशिष्टानि दुर्दर्शानि भवन्त्युत T1 cont.: *692 अर्जुनेनैवमुक्तस्तु वैराटिः प्रत्यभाषत
उत्तर उवाच अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम् तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्
M. N. Dutt: Uttara said It is heard that a corpse is tie to the tree. How can I, being a prince, touch it with my own hands.
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना महता राजपुत्रेण मन्त्रयज्ञविदा सता
M. N. Dutt: To touch it does not become me who am born in the Kshatriya race, a mighty prince and observant of Mantras and vows.
Supplementary Passages:
4.38.10 After 10, D4 ins.: *693 स्पृशामीह शरीरं चेदप्यस्यां शोकवर्जितः
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम् कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे
M. N. Dutt: Why should you, O Brihannala, make my body sullied and unclean by making me touch this corpse?
Supplementary Passages:
4.38.11 After 11, S ins.: *694 वैशंपायनः तमुवाच ततः शूरः पार्थः परपुरंजयः दायादं सर्वमत्स्यानां कुले जातं विशारदम् जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च कथं नु पापकं कर्म ब्रूयां त्वाहं परंतप
बृहन्नडोवाच व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते
M. N. Dutt: Brihannala said You shall remain clean and unpolluted, O foremost of kings. Fear not, there are only bows on this tree and not a corpse.
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज
M. N. Dutt: O prince, why should I make you do a cursed deed, born as you are of a noble family and a heir to the king of Matsya's.
वैशंपायन उवाच एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली आरुरोह शमीवृक्षं वैराटिरवशस्तदा
M. N. Dutt: Thus addressed by Partha, Virata's son, adorned with ear-rings, got down from the car and climbed up the Shami tree unwillingly.
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद
AI Translation: Dhananjaya, standing on the chariot, instructed him. These were the encirclement. He quickly drove them away.
Supplementary Passages:
4.38.15 After 15ab, N ins.: *695 अवारोपय वृक्षाग्राद्धनूंष्येतानि मा बिभः After 15, N (except D3; D10 om. line 1) ins.: *696 सोऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् परिवेष्टनपत्राणि विमुच्य समुपानयत्
तथा संनहनान्येषां परिमुच्य समन्ततः अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह
AI Translation: And having removed their armor all around, he saw Gandīva there with four others.
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम् विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव
AI Translation: When those bows were released, shining like the sun, Divine radiance emerged, like the rising of planets.
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम् हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत
AI Translation: Seeing their forms, like those of snakes yawning, he became frightened and terrified, his hair standing on end.
Supplementary Passages:
4.38.18 After 18c, S (except M5) ins.: *697 प्रवेपिततनुस्तदा अर्जुनेन समाश्वस्तः T1 G2 cont.: *698 किंचिद्धृष्टो नृपात्मजः तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः आमील्य पुनरुन्मील्य स्पृष्ट्वा स्पृष्ट्वा चकार सः सम्यग्दृष्ट्वा तदाश्वस्तः After 18, B4 ins.: *699 तदुपश्रुत्य शत्रुघ्नः स तदार्जुनमब्रवीत् सारथे किमिदं शेते नागेन्द्रो वापि वा धनुः
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च वैराटिरर्जुनं राजन्निदं वचनमब्रवीत्
AI Translation: Having touched those radiant and large bows, Vairāṭa said these words to Arjuna, O king:
उत्तर उवाच बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम्
M. N. Dutt: Uttara said To what illustrious hero does this excellent bow belong, having a hundred golden bosses and shining ends?
Supplementary Passages:
4.38.20 After the ref., D5.7.9 ins.: *700 न दृष्टं न श्रुतं चित्रं धनुषो रूपमीदृशम्
वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम्
M. N. Dutt: Whose is this most excellent bow of good sides and easy hold, on the staff of which shine golden elephants with such a brilliance?
तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम्
M. N. Dutt: Whose is this excellent bow embellished with three scores of golden insects placed with proper divisions on its back?
सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्
M. N. Dutt: Whose is this most excellent bow burning in lustre on which shine three suns of great effulgence?
शालभा यत्र सौवर्णास्तपनीयविचित्रिताः सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम्
M. N. Dutt: Whose is this most excellent weapon variegated with gold and gems on which are golden insects set with brilliant stones?
इमे च कस्य नाराचाः सहस्रा लोमवाहिनः समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये
M. N. Dutt: Whose are these thousand winged arrows having golden points and put in golden quivers?
विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः
M. N. Dutt: Whose are these huge shafts, thick-winged like vultures, whetted, of yellow hue entirely made of iron, and sharp?
कस्यायमसितावापः पञ्चशार्दूललक्षणः वराहकर्णव्यामिश्रः शरान्धारयते दश
M. N. Dutt: Whose is this sable bow having the emblem of five tigers, with boar-eared arrows numbering ten?.
कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः
M. N. Dutt: Whose are these long and thick five hundred arrows like the crescent shaped moon, capable of drinking blood?
कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः
M. N. Dutt: Whose are these gold feathered arrows whetted on stone, the lower halves of which are embellished with wings of the colour of a parrot's feathers and the upper halves of which are made of well-tempered steel?
Supplementary Passages:
4.38.29 After 29, K1 B (B3 marg.) Dn1 D4-6.8 ins.: *701 गुरुभारसहो दिव्यः शात्रवाणां भयंकरः B3 (marg.) cont.: *702 हेमपुङ्खो गार्धपत्रः शात्रवाणां भयंकरः
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान्
AI Translation: Whose is this long arrow, with a stone-like back and a stone-like point, placed in a tiger-skin quiver, with a golden-painted shaft, and great?
सुफलश्चित्रकोशश्च किङ्किणीसायको महान् कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः
AI Translation: The sword of the king of the gods, the sword of the king of the gods, the sword of the king of the gods, the sword of the king of the gods, the sword of the king of the gods, the sword of the king of the gods, the sword of the king of
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः
AI Translation: Whose is this sword, pure and sharp, placed in a leather sheath? This golden-hilted sword, unassailable, is from the land of the Nishadas, a means of carrying a load.
कस्य पाञ्चनखे कोशे सायको हेमविग्रहः प्रमाणरूपसंपन्नः पीत आकाशसंनिभः
AI Translation: Whose is the bow with the golden handle, the arrow with the five-fingered grip, endowed with proper form and measure, yellow like the sky,
कस्य हेममये कोशे सुतप्ते पावकप्रभे निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः
AI Translation: Whose is this sword, bright as heated gold, shining like fire, heavy, yellow, and sharp, without a flaw,
Supplementary Passages:
4.38.34 After 34, Dn D5 (marg.).7.9.11.12 ins.: *703 कस्यायमसितः खड्गो हेमबिन्दुभिरावृतः आशीविषसमस्पर्शः परकायप्रभेदनः गुरुभारसहो दिव्यः सपत्नानां भयप्रदः For 20-34, S subst.: *704 उत्तरः सारथे किमिदं दिव्यं नागो वा यदि वा धनुः सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च (20a) बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः पुघ्पाण्यत्र सुवर्णानि शतपत्राणि भागशः विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम् (21ab) ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् कस्येदमीदृशं चित्रं धनुः सर्वे च दंसिताः चन्द्रार्कविमला भासः सुरूपाः सुप्रदर्शनाः हंसाः पृष्ठे श्रिता यस्य कुशाग्निप्रतिमार्चिषः शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः चतुर्थं काञ्चनवपुर्भाति विद्युद्गणोपमम् नीलोत्पलितमच्छिद्रं जातरूपप्रभं धनुः मत्स्या यस्य हिरण्यस्य पृष्ठे तिष्ठन्ति संचिताः शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः उच्छ्रितं फणिवद्दीर्घं सारवत्त्वाद्दुरानमम् (20c) सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषणाः जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः (25ab) कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः पक्षिणस्तीक्ष्णतुण्डाग्राः कस्येमे निशिताः शराः (26ab) विपाटाः पृथवः कस्य गृध्रपत्रार्धवाजिताः (27c,28ab) वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः वज्राशनिसमस्पर्शा वैश्वानरसमार्चिषः सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः (30a) कस्यायं सायको दीर्घो गव्ये कोशे च दंसितः कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते (30c) वैयाघ्रकोशः कस्यायं दिव्यः खड्गो महाप्रभः (27ab) कस्यायमसिरावापे पञ्चशार्दूललक्षणः (32ab) कस्यायं निर्मलः खड्गो द्वीपिचर्माधिवासितः नीलोत्पलसवर्णोऽयं कस्य खड्गः पृथुर्महान् मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः ऋषभाजिनकोशस्तु कस्य खड्गो महानयम् यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः (32a) कस्यायं विपुलः खड्गः शृङ्गत्सरुमनोहरः निहितः पार्षते कोशे तैलधौतः समाहितः (33c) प्रमाणवर्णयुक्तश्च कस्य खड्गो महानयम् नैतेन प्रतिविद्धः सञ्जीवेत्कश्चन कुञ्जरः After line 26, T ins.: *705 विप्रक्षिप्तास्तीक्ष्णदंष्ट्रा उपासङ्गे हिरण्मये T cont.: G1 (om. line 1) M1-3 ins. after line 26: *706 हारिद्रवर्णाः कस्येमे शिताः पञ्चशतं शराः आशीविषसमस्पर्शा गतौ चाजिह्मगा दृढाः After line 39, T G M1-3 repeat line 33 (v.l. śaṃkho mahān pṛthuḥ for khaḍgo mahāprabhaḥ), and cont.: *707 यस्यापिधाने दृश्यन्ते शार्दूलाः काञ्चनाः शुभाः
निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्
M. N. Dutt: O Brihannala, asked by me, speak out the real truth; great is my wonder on seeing all these.
बृहन्नडोवाच यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम् गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः
M. N. Dutt: Brihannala said The one about which you first enquired is the world-wide known Gandiva bow of Arjuna, capable of destroying the enemy's army.
Supplementary Passages:
4.38.36 Before the ref., T1 G2 ins.: *708 वैशंपायनः उत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत् मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम् After 36, S ins.: *709 अभेद्यमजरं श्रीमद्दिव्यमच्छेद्यमव्रणम्
सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम् एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम्
M. N. Dutt: Polished like pure gold, the greatest of all weapons this is the greatest of all weapons this is the great weapon of Arjuna, Gandiva.
यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम् येन देवान्मनुष्यांश्च पार्थो विषहते मृधे
M. N. Dutt: It is equal to a hundred thousand bows and capable of extending kingdoms: by this Partha defeated in battle celestials and men.
Supplementary Passages:
4.38.38 After 38, N ins.: *710 चित्रमुच्चावचैर्वर्णैः श्लक्ष्णमायतमव्रणम्
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्
AI Translation: Worshipped by gods, demons, and gandharvas for eternal years, Brahma held this for a thousand years in the past.
ततोऽनन्तरमेवाथ प्रजापतिरधारयत् त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च
AI Translation: Then, immediately after that, Prajapati held Three hundred and fifty, and Shakra held eighty-five.
सोमः पञ्चशतं राजा तथैव वरुणः शतम् पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः
AI Translation: Soma was king for five hundred years, and so was Varuna. Partha, the white-horse-drawn chariot, was for fifty-six years.
Supplementary Passages:
4.38.41 After 41ab, S ins.: *711 तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम् अग्निना प्रतिभाव्येन दत्तं पार्थाय गाण्डिवम्
महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम् पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः
AI Translation: This is the great, divine, and very powerful bow, the best of bows, Honored by gods and men, it bears the supreme form.
Supplementary Passages:
4.38.42 After 42ab, N (D1 missing) ins.: *712 एतन्मामनुसंप्राप्तं वरुणाच्चारुदर्शनम् On the other hand, S ins. after 42ab: *713 नीलोत्पलनिभं राज्ञः कौरव्यस्य महात्मनः बिन्दवश्चास्य सौवर्णाः पृष्ठे साधु नियोजिताः S ins. after 42 (M2, after 42ab): *714 तालप्रमाणं भीमस्य मणिरुक्मविभूषितम् दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम्
सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः
M. N. Dutt: That bow of beautiful sides and golden handle belongs to Bhima with which, the son of Pritha, the slayer of enemies, conquered the entire eastern region.
Supplementary Passages:
4.38.43 After 43ab, S (M2 om.) ins.: *715 सहस्रगोधा हैरण्या द्वीपिनश्च चतुर्दश ऋषभाश्चापि सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः T2 G2 M (M2 om.) ins. after 43: G1.3, after line 1 of 720*: *716 पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिभाविताः
इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम् राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम्
M. N. Dutt: the other most excellent and beautiful bow, variegated with insects, belongs to the king Yudhishthira.
सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्
M. N. Dutt: The other, in which golden suns of brilliant effulgence shed lustre all around, belongs to Nakula.
शलभा यत्र सौवर्णास्तपनीयविचित्रिताः एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्
M. N. Dutt: The bow, embellished with golden images of insects and set also with jems and stones, belongs to that son of Madri who is called Sahadeva.
Supplementary Passages:
4.38.46 After 46, Ś1 repeats 46ab and cont.: *717 तपनीयविचित्रं च वैराटे नाकुलं धनुः
ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः
M. N. Dutt: The thousand winged shafts, sharp as razors and dreadful like the venom of snakes, belong to Arjuna, O son of Virata.
एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्
M. N. Dutt: These swift arrows, of the hero burning in energy in battle when discharged against the enemies, become inexhaustible.
Supplementary Passages:
4.38.48 After 48, D5 (marg.).9 ins.: *718 घोराग्रा दीर्घरूपाश्च गिरीणामपि दारणाः
ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः एते भीमस्य निशिता रिपुक्षयकराः शराः
M. N. Dutt: These sharp, long and heavy arrows, resembling the crescent of the moon in shape and capable of destroying the enemies, belong to Bhima.
हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः
M. N. Dutt: The quiver, having the five images of tigers full of yellow, gold winged shafts whetted on stone, belongs to Nakula.
येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः
M. N. Dutt: This quiver belongs to the intelligent son of Madri with which he had conquered the entire western region.
ये त्विमे भास्कराकाराः सर्वपारशवाः शराः एते चित्राः क्रियोपेताः सहदेवस्य धीमतः
M. N. Dutt: These arrows, lustrous like the sun, painted all over with various colours and capable of destroying enemies by thousands, belong to Sahadeva.
ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः
M. N. Dutt: These great arrows, sharpened, yellow, heavy, long, gold feathered and consisting of three knots, belong to the king (Yudhishthira).
यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः
M. N. Dutt: This long sword, with the emblem of a bee on its back and sharp as the sting of a bee, firm and capable of bearing heavy weight in battle, belongs to Arjuna.
वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः गुरुभारसहो दिव्यः शात्रवाणां भयंकरः
M. N. Dutt: This celestials huge sword, cased in tiger skin, capable of bearing heavy weight and dreadful to the enemies, belongs to Bhimasena.
सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः
M. N. Dutt: This most excellent sword, of a sharp blade, golden hilt and cased in a painted sheath, belongs to the intelligent Dharmaraja of the Kuru race.
यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः
M. N. Dutt: This strong sword, capable of bearing heavy weight intended for various forms of fight and cased in a sheath of goat-skin belongs to Nakula.
यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्
M. N. Dutt: This huge, strong and dreadful sword, capable of bearing heavy weight and put in a sheath of cow-skin, belongs to Sahadeva.
Supplementary Passages:
4.38.58 After 58, D5 (marg.).9 ins.: *719 वैशंपायनः एवमाख्यातवांस्तत्र स्वायुधानि परंतपः विराटपुत्राय तदा पार्थः सत्यपराक्रमः For 45-58, S subst.: *720 (45a) बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषणाः नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः एतेन सदृशं चित्रं धनुश्चैतद्यवीयसः (50a) हारिद्रवर्णं राज्ञश्च कौरव्यस्य महात्मनः विपाटा भीमसेनस्य गिरीणामपि दारणाः सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुकृता दृढाः भीमेन प्रहिता ह्येते वारणानां निवारणाः सुवर्णवर्णा रुचिराः कालदण्डोपमाः शुभाः (50c) नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः यांश्च त्वं पृच्छसे दीर्घान्समधारान्समाहितान् (52d) वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः (54a) यस्त्वयं सायको दिव्यो गव्ये कोशे च दंसितः (54d) पार्थस्यास्त्रमिदं घोरं सर्वभारसहं महत् यस्त्वयं निर्मलः खड्गो द्वीपिचर्मणि दंसितः राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः (55a,50d) वैयाघ्रकोशो भीमस्य पञ्चशार्दूललक्षणः वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने नीलोत्पलसवर्णाभः खड्गः पार्थस्य धीमतः मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः समाहितः दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः (54c) अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः (57a) यस्त्वयं पार्षते कोशे प्रक्षिप्तो रुचिरत्सरुः (57c) नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः (58a) यस्त्वयं पिङ्गलः खड्गश्चित्रो मणिमयत्सरुः (58cd) सहदेवस्य खड्गोऽयं भारसाहोऽतिदंसितः भीमस्यायं महादण्डः सर्वामित्रविनाशनः वैशंपायनः भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान् After line 1, G1.3 ins. 716*; while M1 ins.: *721 अन्यत्तु सहदेवस्य धनुः श्रेष्ठं महौजसः After line 28, T1 ins.: *722 क्वासौ प्रच्छन्नवासानां पाण्डवानां महात्मनाम् न्यस्तान्यत्र महार्हाणि व्रतसिद्धिमुपेयुषाम् इत्युत्तरं तु तत्सर्वमर्जुनस्तत्त्वतोऽब्रवीत्