Verse Search

My Highlights

No highlights found.

Book 04 / Chapter 006

Critical Edition

1

वैशंपायन उवाच ततो विराटं प्रथमं युधिष्ठिरो; राजा सभायामुपविष्टमाव्रजत् वैडूर्यरूपान्प्रतिमुच्य काञ्चना;नक्षान्स कक्षे परिगृह्य वाससा

AI Translation: Vaishampayana said: Then Yudhishthira, the king, first approached Virata, who was seated in the assembly hall, removing the golden ornaments resembling lapis lazuli, and embracing him with his garment.

2

नराधिपो राष्ट्रपतिं यशस्विनं; महायशाः कौरववंशवर्धनः महानुभावो नरराजसत्कृतो; दुरासदस्तीक्ष्णविषो यथोरगः

AI Translation: The king, the glorious lord of the land, the great and glorious upholder of the Kuru lineage, The great and powerful king, honored by the kings, was difficult to approach, like a poisonous snake.

3

बलेन रूपेण नरर्षभो महा;नथार्चिरूपेण यथामरस्तथा महाभ्रजालैरिव संवृतो रवि;र्यथानलो भस्मवृतश्च वीर्यवान्

AI Translation: The lord of men, with his strength and beauty, was like the sun, with its orb of fire, like the sun, covered with a net of great clouds, like the fire, covered

4

तमापतन्तं प्रसमीक्ष्य पाण्डवं; विराटराडिन्दुमिवाभ्रसंवृतम् मन्त्रिद्विजान्सूतमुखान्विशस्तथा; ये चापि केचित्परिषत्समासते पप्रच्छ कोऽयं प्रथमं समेयिवा;ननेन योऽयं प्रसमीक्षते सभाम्

M. N. Dutt: The king Virata asked his counsellors, the Brahmanas, the charioteers, the Vaishyas and all others who took their seats about him, "who might be the man that has come first, and just like a king appears in my court.

Supplementary Passages:

4.6.4 After 4ab, N ins.: *177 समागतं पूर्णशशिप्रभाननं महानुभावं नचिरेण दृष्टवान्

5

न तु द्विजोऽयं भविता नरोत्तमः; पतिः पृथिव्या इति मे मनोगतम् न चास्य दासो न रथो न कुण्डले; समीपतो भ्राजति चायमिन्द्रवत्

M. N. Dutt: This best of men can not be a Brahmin; me-thinks he is a lord of earth, though he has neither a slave, nor a car, nor an elephant with him, yet he shines just like Indra.

6

शरीरलिङ्गैरुपसूचितो ह्ययं; मूर्धाभिषिक्तोऽयमितीव मानसम् समीपमायाति च मे गतव्यथो; यथा गजस्तामरसीं मदोत्कटः

M. N. Dutt: By the marks on his person it is indicated that he is no other than one whose head has gone through the ceremony of coronal baths, and that is my belief. He approaches me as fearless as an elephant in a ruttish frenzy approaches a lotus.”

7

वितर्कयन्तं तु नरर्षभस्तदा; युधिष्ठिरोऽभ्येत्य विराटमब्रवीत् सम्राड्विजानात्विह जीवितार्थिनं; विनष्टसर्वस्वमुपागतं द्विजम्

M. N. Dutt: Yudhishthira, the best of men, having come near the king Virata while he was thus indulging in thoughts, addressed him saying "O great king, know me to be a Brahmin, who having lost all, have come to you, solicitous for his livelihood.

Supplementary Passages:

4.6.7 After 7, D7.9 ins.: *178 विद्धि प्रभो मत्स्यपते कुलोत्तमं सेवार्थिनं सेवकमानवर्धनम्

8

इहाहमिच्छामि तवानघान्तिके; वस्तुं यथा कामचरस्तथा विभो तमब्रवीत्स्वागतमित्यनन्तरं; राजा प्रहृष्टः प्रतिसंगृहाण च

M. N. Dutt: O sinless one, I wish to reside with you just like one obeying the voice of his master 0 Lord!" After having accorded him a due welcome the king well pleased said “accept the post you seek for."

Supplementary Passages:

4.6.8 After 8, N (except K1 D1) ins.: *179 तं राजसिंहं प्रतिगृह्य राजा प्रीतात्मना चैवमिदं बभाषे

9

कामेन ताताभिवदाम्यहं त्वां; कस्यासि राज्ञो विषयादिहागतः गोत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम्

M. N. Dutt: Having appointed him the best of kings, O king, glad at heart addressed him saying “O worshipful one I bow down to you" from the dominions of what king you are come here? Please tell me truly what your name is and what family you belong to and whether you have knowledge of any art.

10

युधिष्ठिर उवाच युधिष्ठिरस्यासमहं पुरा सखा; वैयाघ्रपद्यः पुनरस्मि ब्राह्मणः अक्षान्प्रवप्तुं कुशलोऽस्मि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः

M. N. Dutt: Yudhishthira said I was formerly a friend of Yudhishthira, I am a Brahmin belonging to the family named Vaiayghara, I am expert in casting dice. O Virata, I am known by the name of Kanka.

11

विराट उवाच ददामि ते हन्त वरं यमिच्छसि; प्रशाधि मत्स्यान्वशगो ह्यहं तव प्रिया हि धूर्ता मम देविनः सदा; भवांश्च देवोपम राज्यमर्हति

M. N. Dutt: Virata said I grant you the boon which you may desire. Rule over the Matsyas. Know me to be your obedient. Even the cunning gamblers are always beloved of me, you, like a king, deserve a kingdom.

12

युधिष्ठिर उवाच आप्तो विवादः परमो विशां पते; न विद्यते किंचन मत्स्य हीनतः न मे जितः कश्चन धारयेद्धनं; वरो ममैषोऽस्तु तव प्रसादतः

M. N. Dutt: Yudhishthira said O Matsya, O lord of people, I shall never pick a quarrel, from the play at dice, with low people, nor shall any person be defeated by me. Let this boon be granted to me through your grace.

13

विराट उवाच हन्यामवध्यं यदि तेऽप्रियं चरे;त्प्रव्राजयेयं विषयाद्द्विजांस्तथा शृण्वन्तु मे जानपदाः समागताः; कङ्को यथाहं विषये प्रभुस्तथा

M. N. Dutt: Virata said Surely shall I kill him who may do wrong to you. Should he be a Brahmin I shall banish him from my kingdom. Let my assembled subjects hear, Kanka, is as much lord of this my dominion as I myself.

14

समानयानो भवितासि मे सखा; प्रभूतवस्त्रो बहुपानभोजनः पश्येस्त्वमन्तश्च बहिश्च सर्वदा; कृतं च ते द्वारमपावृतं मया

M. N. Dutt: You (Kanka) shall be my friend, your vehicle shall be the same as mine, you shall have plenty of clothes and sundry sorts of drinks and dishes. You shall look into both ins and outs of my affair, I shall always keep my doors open for you.

15

ये त्वानुवादेयुरवृत्तिकर्शिता; ब्रूयाश्च तेषां वचनेन मे सदा दास्यामि सर्वं तदहं न संशयो; न ते भयं विद्यति संनिधौ मम

M. N. Dutt: When the people pressed by the want of employment, will apply to you, you shall at all hours tell me all their words. I shall undoubtedly give them all that they will ask for, before iny presence there will be no fear to you.

Supplementary Passages:

4.6.15 For 2-15, S subst.: *180 अनन्ततेजोज्वलितं यथानलं (2d) दुरासदं तीक्ष्णविषं यथोरगम् सभागतं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानायुधशस्त्रपाणिभिः उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शीक्षाक्षरमन्त्रधारिभिः गजैरुदीर्णं तुरगैश्च संकुलं मृगद्विजैः कुब्जगणैश्च संवृतम् सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् विराटमाराच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे (4a) तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं (4b) विराटराजो मुदितेन चक्षुषा (4e) पप्रच्छ चैनं स नराधिपो मुहुर् (4c) द्विजांश्च ये चास्य सभासदस्तदा (4e) को वा विजानाति पुरास्य दर्शनं (4f) युवा सभां योऽयमुपैति मामिकाम् (3a) रूपेण सारेण विदारयन्महीं (3b) श्रिया ह्ययं वैश्रवणो द्विजो यथा मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा विरोचते पावकसूर्यसंनिभः सचन्द्रनक्षत्र इवांशुमान्ग्रहः (5c) न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् (5e) न कुण्डले नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्चतुर्युजः (5ab) क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः अभ्यागतोऽस्माननलंकृतोऽपि सन् विरोचते भानुरिवाचिरोदितः विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः नाक्षत्रियो नूनमयं भविष्यति (6b) मूर्धाभिषिक्तः प्रतिभाति मां प्रति तुल्यं हि रूपं प्रतिदृश्यतेऽस्य व्याघ्रस्य सिंहस्य महर्षभस्य यदेष कामं परिमार्गते द्विजस् तदस्य सर्वं क्रियतामसंशयम् प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथातिथिष्वपि धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः अनेन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यधारिणम् समुत्थिता सा च सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका सभागतं प्रेक्ष्य तपन्तमर्चिषा विनिःसृत राहुमुखाद्यथा रविम् स तेन पूर्वं जयतां भवानिति द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् (8c) तमब्रवीत्प्राञ्जलिरेव पार्थिवो (8d) विराटराजो मधुराक्षरं वचः प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज श्रुतं च शीलं च कुलं च शंस मे (9c) गोत्रं तथा नाम च देशमेव च सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः तवानुरूपं प्रचरामि ते ह्यहं न चावमन्ता न श्रुताभिभाषिता अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशं विसृजामि ते पुरम् (9b) कस्यासि राज्ञो विषयादिहागतः (9d) किं कर्म चात्राचरसि द्विजोत्तम एवं ब्रुवाणं तमुवाच पार्थिवो युधिष्ठिरो धर्ममवेक्ष्य चासकृत् सत्यं वचः को न्विह वक्तुमुत्सहेद् यथाप्रतिज्ञं तु शृणुष्व पार्थिव श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च गुरूपदेशान्नियमाच्च मे व्रतं कुलक्षमार्थं पितॄभिर्नियोजितम् द्विजो व्रतेनास्मि न च द्विजः प्रभो समुण्डितः प्रव्रजितस्त्रिदण्डभृत् इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ममेह पञ्चेन्द्रियगात्रदर्शिनो वदन्ति पञ्चैव पितॄन्यथाश्रुति मनुष्यजातित्वमचिन्तयन्नहं न चास्मि तुल्यः पितृभिः स्वभावतः (10d) कङ्को हि नाम्ना विषयं तवागतो व्रती द्विजातिः स्वकृतेन कर्मणा द्यूतप्रसङ्गादधनोऽस्मि राजन् सत्यप्रतिज्ञा व्रतिनश्चरामहे (10a) युधिष्ठिरस्यास्मि सखाभवं पुरा गृहप्रवेशी च शरण्यमेव च गृहे च तस्योषितवाहनं सुखं राजास्मि तस्य स्वपुरेऽभवं पुरा ममाज्ञया तत्र विचेरुरङ्गना मम प्रियार्थं दमयन्ति वाजिनः मया कृतं तस्य पुरे तु यत्पुरा न तत्कदाचित्कृतवाञ्जनोऽन्यथा सोऽहं पुरा तस्य वयःसमः सखा चरामि सर्वां वसुधां सुदुःखितः न मे प्रशान्तिं क्वचिदाश्रयामि वै व्रतोपदेशान्नियमेन हारितः (10b) वैयाघ्रपद्योऽस्मि नरेन्द्र गोत्रतस् तदेव सौख्यं मृगयामहे वयम् कृतज्ञभावेन मयानुकीर्तितं युधिष्ठिरस्यात्मसमस्य चेष्टितम् इमं हि मोक्षाश्रममाश्रितस्य मे युधिष्ठिरस्तुल्यगुणो भवानपि न मेऽद्य माता न पिता न बान्धवा न मे स्वरूपं न रतिर्न संततिः सुखं च दुःखं च हि तुल्यमद्य मे प्रियाप्रिये तुल्यगतिर्गतागते मुक्तोऽस्मि कामाच्च धनाच्च सांप्रतं त्वदाश्रयो वस्तुमिहाभ्युपागतः संवत्सरेणेह समाप्यते त्विदं मम व्रतं दुष्कृतकर्मकारिणः ततो भवन्तं परितोष्य कर्मभिः पुनर्व्रजिष्यामि कुतूहलं यतः (10e) अक्षान्निवप्तुं कुशलो ह्यहं सदा पराजितः शकुनिरुतानि चिन्तयन् मृगद्विजानां च रुतानि चिन्तयन् निराश्रयः प्रव्रजितोऽस्मि भिक्षुकः तमेवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः (11a) ददामि ते हन्त वरं यदीप्सितं (11b) प्रशाधि मत्स्यान्यदि मन्यते भवान् (11c) प्रिया हि धूर्ता मम चाक्षकोविदास् (11d) त्वं चापि देवो मम राज्यमर्हसि (14ab) समानयानासनवस्त्रभोजनं प्रभूतमाल्याभरणानुलेपनम् स सार्वभौमोपम सर्वदार्हसि प्रियं हि मन्ये तव नित्यदर्शनम् (15a) ये त्वाभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः (15b) सर्वाणि कार्याण्यहमर्थितस्त्वया (15cd) तेषां करिष्यामि न मेऽत्र संशयः (13a) ममान्तिके यश्च तवाप्रियं चरेत् (13b) प्रवासये तं प्रविचिन्त्य मानवम् यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च युधिष्ठिरः (12ab) अतोऽभिलाषः परमो न विद्यते (12c) न मे जितं किंचन धारये धनम् न भोजनं किंचन संस्पृशे त्विह हविष्यभोजी निशि च क्षितीशयः व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित् एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा (12d) एवं वरं मात्स्य वृणे प्रवारितः कृती भविष्यामि वरेण तेऽनघ वैशंपायनः एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च विराटराजस्य हि तेन संगमो बभूव विष्णोरिव वज्रपाणिना तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः सभां च तां प्राज्वलयद्युधिष्ठिरः श्रिया यथा शक्र इव त्रिविष्टपम्

16

वैशंपायन उवाच एवं स लब्ध्वा तु वरं समागमं; विराटराजेन नरर्षभस्तदा उवास वीरः परमार्चितः सुखी; न चापि कश्चिच्चरितं बुबोध तत्

M. N. Dutt: Vaishampayana said Having thus obtained the boon from the king Virata he too the best of men began to live there happily, highly respected by all. Nor could any one discover him.

***