Verse Search

My Highlights

No highlights found.

Book 04 / Chapter 048

Critical Edition

1

वैशंपायन उवाच तथा व्यूढेष्वनीकेषु कौरवेयैर्महारथैः उपायादर्जुनस्तूर्णं रथघोषेण नादयन्

AI Translation: Vaishampayana said: Thus, when the armies were arrayed by the great warriors of the Kauravas, Arjuna quickly approached, resounding with the noise of his chariot.

2

ददृशुस्ते ध्वजाग्रं वै शुश्रुवुश्च रथस्वनम् दोधूयमानस्य भृशं गाण्डीवस्य च निस्वनम्

AI Translation: They saw the top of the flag and heard the sound of the chariot, and the loud sound of the Gandīva bow being drawn.

Supplementary Passages:

4.48.2 After 2, S ins.: *871 त्रिकोशमात्रं गत्वा तु पाण्डवः श्वेतवाहनः सेनामुखमभिप्रेक्ष्य पार्थो वैराटिमब्रवीत् राजानं नात्र पश्यामि रथानीके व्यवस्थितम् दक्षिणं पक्षमास्थाय कुरवो यान्त्युदङ्मुखाः उत्सृज्यैतद्रथानीकं महेष्वासाभिरक्षितम् गवाग्रमभितो याहि यावत्पश्यामि मे रिपुम् गवाग्रमभितो गत्वा गाश्चाशु विनिवर्तय यावदेते निवर्तन्ते कुरवो जवमास्थिताः तावदेव पशून्सर्वान्निवर्तिष्ये तवाभिभो इत्युक्त्वा समरे पार्थो वैराटिमपराजितः सव्यं पक्षमनुप्राप्य जवेनाश्वानचोदयत् ततोऽभ्यवादयत्पार्थो भीष्मं शांतनवं कृपम् द्वाभ्यां द्वाभ्यां तथाचार्यं द्रोणं च निशितैः शरैः T G2 cont.: *872 द्रोणं कृपं च भीष्मं च पृषत्कैरभ्यवादयत्

3

ततस्तत्सर्वमालोक्य द्रोणो वचनमब्रवीत् महारथमनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम्

AI Translation: Then, having seen all that, Drona spoke these words: Having seen the wielder of the Gandiva bow, the great chariot-warrior,

Supplementary Passages:

4.48.3 T1 ins. after 3ab: G1.3, after 4: *873 द्रोणः न कश्चिद्योद्धुमिच्छेत न च गुप्तं स्वजीवितम् अयं वीरश्च शूरश्च दुर्धर्षश्चैव संयुगे

4

एतद्ध्वजाग्रं पार्थस्य दूरतः संप्रकाशते एष घोषः सजलदो रोरवीति च वानरः

AI Translation: This banner of Partha is seen from afar. This is the sound of the monkey roaring with the clouds.

Supplementary Passages:

4.48.4 S ins. after 4 (G1.3, after 3): *874 अवस्थाय रथं याति गाण्डीवं विक्षिपन्धनुः अश्वानां स्तनतां शब्दो वहतां पाकशासनिम् रथस्याम्बुधरस्येव श्रूयते भृशदारुणः दारयन्निव तेजस्वी वसुधां वासवात्मजः On the other hand, after 4, G1.3 ins. 873*, while D3 (marg.) ins.: *875 एष उदार आयाति रथे च रथिनां वरः

5

एष तिष्ठन्रथश्रेष्ठो रथे रथवरप्रणुत् उत्कर्षति धनुःश्रेष्ठं गाण्डीवमशनिस्वनम्

AI Translation: This best of charioteers, standing on his chariot, drives the best of chariots, and draws the best of bows, the Gandīva, which sounds like thunder.

Supplementary Passages:

4.48.5 After 5ab, S (which om. 5cd) ins.: *876 एष दृष्ट्वा रथानीकमस्माकमरिमर्दनः ह्रीमान्वदान्यो धृतिमान्सत्करोति च पाण्डवः

6

इमौ हि बाणौ सहितौ पादयोर्मे व्यवस्थितौ अपरौ चाप्यतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ

AI Translation: For these two arrows are fixed to my feet, and two others have passed beyond, touching my ears.

Supplementary Passages:

4.48.6 After 6ab, S ins.: *877 बन्धुराग्रौ निखातौ मे चित्रपुङ्खावजिह्मगौ After 6, S ins.: *878 संस्पृशन्तावतिक्रान्तौ पृष्ट्वैवानामयं भृशम् S cont.: B D (except D1.2.4.8-10; D7 marg. sec. m.) ins. after 7: *879 चिरदृष्टोऽयमस्माभिः प्रज्ञावान्बान्धवप्रियः अतीव ज्वलितो लक्ष्म्या पाण्डुपुत्रो धनंजयः

7

निरुष्य हि वने वासं कृत्वा कर्मातिमानुषम् अभिवादयते पार्थः श्रोत्रे च परिपृच्छति

AI Translation: Having lived in the forest, having performed superhuman deeds, Arjuna greets him and asks him a question.

Supplementary Passages:

4.48.7 After 7, D10 ins.: *880 कुशलं परिपृष्ट्वा च गतास्ते कङ्कवाससः while B D (except D1.2.4.8-10; D7 marg. sec. m.) ins. 879* (cf. v.l. 6). Finally, S ins. after 7: *881 अमर्षेणाभिसंपूर्णो दुःखेन प्रतिबोधितः अद्येमां भारतीं सेनामेको नाशयते ध्रुवम् द्व्यधिकं दश उष्य वत्सराणां स्वजनेनाविदितस्त्रयोदशं च ज्वलते रथमास्थितः किरीटी तम इव रात्रिजमभ्युदस्य सूर्यः S cont.: K2 ins. after 7: B D (except D1.2.4.8-10; D7 marg. sec. m.) ins. after 879* (cf. v.l. 6): *882 रथी शरी चारुतली निषङ्गी शङ्खी पताकी कवची किरीटी खड्गी च धन्वी च विभाति पार्थः शिखी वृतः स्रुग्भिरिवाज्यसिक्तः S cont.: *883 वैशंपायनः तमदूरमुपायान्तं दृष्ट्वा पाण्डवमर्जुनम् नारयः प्रेक्षितुं शेकुस्तपस्यन्तं यथा रविम् स तं दृष्ट्वा रथानीकं पार्थः सारथिमब्रवीत्

8

अर्जुन उवाच इषुपाते च सेनाया हयान्संयच्छ सारथे यावत्समीक्षे सैन्येऽस्मिन्क्वासौ कुरुकुलाधमः

AI Translation: Arjuna said: O charioteer, restrain the horses in the midst of the army, where the arrows fall, so that I may see in this army where that worst of the Kuru clan

Supplementary Passages:

4.48.8 After 8, S ins.: *884 रत्नवैडूर्यविकृतं मणिप्रवरभूषितम् परिजानाम्यहं तस्य ध्वजं दूरात्समुच्छ्रितम् यद्येनमिह पश्यामि दुर्बुद्धिमतिमानिनम् यमाय प्रेषयिष्यामि सहायोऽस्य यदीश्वरः

9

सर्वानन्याननादृत्य दृष्ट्वा तमतिमानिनम् तस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः

AI Translation: Ignoring all others, seeing that very proud one, I will fall on his head, then these will be defeated.

10

एष व्यवस्थितो द्रोणो द्रौणिश्च तदनन्तरम् भीष्मः कृपश्च कर्णश्च महेष्वासा व्यवस्थिताः

AI Translation: Drona is stationed here, and Drona's son after him, Bhishma, Kripa, Karna, the great archers are stationed.

11

राजानं नात्र पश्यामि गाः समादाय गच्छति दक्षिणं मार्गमास्थाय शङ्के जीवपरायणः

AI Translation: I do not see the king here, taking the cows and going away. Taking the southern path, I suspect he is intent on saving his life.

12

उत्सृज्यैतद्रथानीकं गच्छ यत्र सुयोधनः तत्रैव योत्स्ये वैराटे नास्ति युद्धं निरामिषम् तं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः

AI Translation: Having abandoned this army of chariots, go where Suyodhana is. I will fight there only, O Vaikartana, there is no battle without a stake. Having defeated him

Supplementary Passages:

4.48.12 For 9c-12f, S (which om. 13-14) subst.: *885 (9c) सिंहः क्षुद्रमृगस्येव पतिष्ये तस्य मूर्धनि हनिष्यामि तमेवाशु शरैर्गाण्डीवनिःसृतैः (9d) तस्मिन्हते भविष्यन्ति सर्व एव पराजिताः शरैः समर्पयिष्यामि धार्तराष्ट्रं ससौबलम् असभ्यानां च वक्तारं कुरूणां किल किल्बिषम् (11a,12d) राजानं नेह पश्यामि निरामिषमिदं बलम् अभिद्रवे ह राजानं व्यक्तमित्यत्र निर्भयः (10ab) आस्थितो मध्यमाचार्यो ह्यश्वत्थामा त्वनन्तरम् (10cd) कृपकर्णौ पुरस्तात्तु महेष्वासौ व्यवस्थितौ भूरिश्रवाः सोमदत्तो बाह्लीकश्च जयद्रथः (11c) दक्षिणं पक्षमाश्रित्य स्थिता युद्धविशारदाः साल्वराजो द्युमत्सेनो वृषसेनश्च सौबलः दशार्णश्चैव कालिङ्गो वामं पक्षं समाश्रिताः पृष्ठतः कुरुमुख्यस्तु भीष्मस्तिष्ठति दंसितः अर्धसैन्येन बलवान्सर्वेषां नः पितामहः (11ab) दुर्योधनं न पश्यामि क्व नु राजा स गच्छति (12ab) उत्सृजैतद्रथानीकं याहि यत्र सुयोधनः (12ef) तं हत्वा विनिवर्तिष्ये गाः स आदाय गच्छति गवाग्रमभितो याहि यत्र राजा भविष्यति S cont.: *886 इत्युक्त्वा समरे पार्थो वैराटिमपराजितः संस्पृशानो धनुर्दिव्यं त्वरमाणोऽगमत्तदा ततो भीष्मोऽब्रवीद्वाक्यं कुरुमध्ये परंतपः चिरदृष्टोऽयमस्माभिर्धर्मज्ञो बान्धवप्रियः अतीव ज्वलते लक्ष्म्या पाकशासनिरच्युतः एष दुर्योधनं पार्थो मार्गते विकृतिं स्मरन् सेनामत्यर्थमालोक्य त्वरते ग्रहणे कृतम् मृगं सिंह इवादातुमीक्षते पाकशासनिः After 12, B4 ins.: *887 पश्चादेते प्रदातव्या इति मे वर्तते मतिः

13

वैशंपायन उवाच एवमुक्तः स वैराटिर्हयान्संयम्य यत्नतः नियम्य च ततो रश्मीन्यत्र ते कुरुपुंगवाः अचोदयत्ततो वाहान्यतो दुर्योधनस्ततः

AI Translation: Vaishampāyana said: Thus addressed, the son of Virāta, having carefully controlled the horses, and having controlled the reins, the bull-like Kurus here then

14

उत्सृज्य रथवंशं तु प्रयाते श्वेतवाहने अभिप्रायं विदित्वास्य द्रोणो वचनमब्रवीत्

AI Translation: When the lord of the chariot-corps had gone away with the white horses, Drona, knowing his intention, spoke these words:

15

नैषोऽन्तरेण राजानं बीभत्सुः स्थातुमिच्छति तस्य पार्ष्णिं ग्रहीष्यामो जवेनाभिप्रयास्यतः

AI Translation: Bhima will not remain here without the king. We shall seize his rear when he goes forward with speed.

16

न ह्येनमभिसंक्रुद्धमेको युध्येत संयुगे अन्यो देवात्सहस्राक्षात्कृष्णाद्वा देवकीसुतात्

AI Translation: For no one could fight him in battle when he was so enraged, except the thousand-eyed god or Krishna, the son of Devaki.

Supplementary Passages:

4.48.16 After 16, Ś1 K B1.3 (marg.).5 Dn D7 (marg. sec. m.).11.12 ins.: *888 आचार्यप्रवराद्वापि भारद्वाजान्महारथात्

17

किं नो गावः करिष्यन्ति धनं वा विपुलं तथा दुर्योधनः पार्थजले पुरा नौरिव मज्जति

AI Translation: What will our cows do for us, or even great wealth? Duryodhana, like a boat, sinks in the water of the Pāṇḍavas.

Supplementary Passages:

4.48.17 After 17, D10 ins. 686* (cf. also v.l. 4.41.19); while S ins.: *889 इत्युक्त्वा समरे भीष्मः सेनया सह कौरवः अन्वधावत्तदा पार्थं धार्तराष्ट्रस्य रक्षणे वैशंपायनः त्रिकोशमात्रं गत्वा तु पार्थो वैराटिमब्रवीत् इषुपातेन सेनायाः स्थापयाश्वानरिंदम एतदग्रं गवां दृष्टं मन्दं वाहय सारथे याह्युत्तरेण सेनाया गाश्चैव प्रविभज्य च परिक्षिप्य गवां यूथमत्र योत्स्ये सुयोधनम् गच्छन्ति सत्वरं गावः सगोपाः परिमोचय तत्र गत्वा पशून्वीर सगोपान्परिमोचय अन्तरेण च सेनायाः प्राङ्मुखो गच्छ चोत्तर इमे त्वतिरथाः सर्वे मम वीर्यपराक्रमम् पश्यन्तु कुरवो युद्धे महेन्द्रस्येव दानवाः

18

तथैव गत्वा बीभत्सुर्नाम विश्राव्य चात्मनः शलभैरिव तां सेनां शरैः शीघ्रमवाकिरत्

AI Translation: Having gone there in the same way, Bībhatsu, having announced his name, quickly covered that army with arrows, like locusts.

Supplementary Passages:

4.48.18 After 18ab, S ins.: *890 निशिताग्राञ्छरांस्तीक्ष्णान्मुमोचान्तकसंनिभान् After 18, S ins.: *891 निरावकाशमभवच्छरैः क्षिप्तैः किरीटिना G1.3 cont.: T G2 M ins. after 19ab: *892 सा चापि बहुला सेना पार्थबाणाभिपीडिता

19

कीर्यमाणाः शरौघैस्तु योधास्ते पार्थचोदितैः नापश्यन्नावृतां भूमिमन्तरिक्षं च पत्रिभिः

AI Translation: The warriors, being struck by the arrows released by Partha, did not see the earth or the sky free from arrows.

Supplementary Passages:

4.48.19 After 19, S ins.: *893 गाश्चैव हि न पश्यन्ति पार्थमुक्तैरजिह्मगैः अर्जुनस्तु तदा हृष्टो दर्शयन्वीर्यमात्मनः पीडयामास सैन्यानि गाण्डीवप्रसृतैः शरैः

20

तेषां नात्मनिनो युद्धे नापयानेऽभवन्मतिः शीघ्रत्वमेव पार्थस्य पूजयन्ति स्म चेतसा

AI Translation: Their minds were not turned to flight or to fight. They only admired the speed of Partha.

Supplementary Passages:

4.48.20 After 20, S ins.: *894 चन्द्रावदातं सामुद्रं कुरुसैन्यभयंकरम्

21

ततः शङ्खं प्रदध्मौ स द्विषतां लोमहर्षणम् विस्फार्य च धनुःश्रेष्ठं ध्वजे भूतान्यचोदयत्

AI Translation: Then he blew his conch, which made the hair of his enemies stand on end, And stretching his best bow, he urged the spirits on his banner.

22

तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च अमानुषाणां तेषां च भूतानां ध्वजवासिनाम्

AI Translation: By the sound of his conch and the sound of his chariot wheels, and by the sound of those superhuman beings, the banner-clad spirits,

Supplementary Passages:

4.48.22 N ins. after 22ab (D3, which om. 22bc but reads 22cd after 22d, ins. after 22): *895 गाण्डीवस्य च घोषेण पृथिवी समकम्पत After 22, Ś1 ins.: *896 शब्देन महता राजन्संत्रस्तं गोधनं महत् while S ins.: *897 वियद्गतानां देवानां मानुषाणां रवेण च

23

ऊर्ध्वं पुच्छान्विधुन्वाना रेभमाणाः समन्ततः गावः प्रतिन्यवर्तन्त दिशमास्थाय दक्षिणाम्

M. N. Dutt: As well as with the cries of all the superhuman creatures placed on the flag staff. Then raising up their tails and running to and fro the king came back by the southern road.

***