Verse Search

My Highlights

No highlights found.

Book 04 / Chapter 050

Critical Edition

1

वैशंपायन उवाच अपयाते तु राधेये दुर्योधनपुरोगमाः अनीकेन यथास्वेन शरैरार्च्छन्त पाण्डवम्

M. N. Dutt: Vaishampayana said After the son of Radha had fled away fi the battle-field all other heroes, headed Duryodhana attacked Arjuna with respective detachments.

2

बहुधा तस्य सैन्यस्य व्यूढस्यापततः शरैः अभियानीयमाज्ञाय वैराटिरिदमब्रवीत्

AI Translation: When the army of the enemy, arrayed in many ways, was falling on him with arrows, Vairāṭa, understanding that he was being attacked, said this:

3

आस्थाय रुचिरं जिष्णो रथं सारथिना मया कतमद्यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया

M. N. Dutt: O Partha, stationed on this beautiful car with myself as charioteer, towards what division of the army shall I go?

4

अर्जुन उवाच लोहिताक्षमरिष्टं यं वैयाघ्रमनुपश्यसि नीलां पताकामाश्रित्य रथे तिष्ठन्तमुत्तर

AI Translation: Arjuna said: You see the red-eyed enemy-destroyer, the tiger-like one, Standing on the chariot, leaning on the blue flag, O Uttara.

5

कृपस्यैतद्रथानीकं प्रापयस्वैतदेव माम् एतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः

AI Translation: Take this army of Kripa to this place and bring me here. I will show this archer, the wielder of a firm bow, my swift weapons.

6

कमण्डलुर्ध्वजे यस्य शातकुम्भमयः शुभः आचार्य एष वै द्रोणः सर्वशस्त्रभृतां वरः

M. N. Dutt: That hero, on whose flag is the emblem of a beautiful golden water pot, is the preceptor Drona-the foremost of the wielders of all weapons.

7

सुप्रसन्नमना वीर कुरुष्वैनं प्रदक्षिणम् अत्रैव चाविरोधेन एष धर्मः सनातनः

AI Translation: With a very joyful mind, O hero, perform this circumambulation. And in this very place, without contradiction, this is the eternal Dharma.

8

यदि मे प्रथमं द्रोणः शरीरे प्रहरिष्यति ततोऽस्य प्रहरिष्यामि नास्य कोपो भविष्यति

AI Translation: If Drona first strikes my body, then I will strike him, and he will not be angry.

9

अस्याविदूरे तु धनुर्ध्वजाग्रे यस्य दृश्यते आचार्यस्यैष पुत्रो वै अश्वत्थामा महारथः

AI Translation: Not far from here, on the banner of the bow, is seen This is the son of the teacher, the great warrior Ashvatthama.

10

सदा ममैष मान्यश्च सर्वशस्त्रभृतामपि एतस्य त्वं रथं प्राप्य निवर्तेथाः पुनः पुनः

AI Translation: He is always honored by me, even by all the wielders of weapons. Having obtained his chariot, you should return again and again.

11

य एष तु रथानीके सुवर्णकवचावृतः सेनाग्र्येण तृतीयेन व्यवहार्येण तिष्ठति

AI Translation: Who is this one, in the midst of the chariots, covered with golden armor, standing with the third, the foremost of the army, the one to be dealt with,

12

यस्य नागो ध्वजाग्रे वै हेमकेतनसंश्रितः धृतराष्ट्रात्मजः श्रीमानेष राजा सुयोधनः

AI Translation: The one whose banner is a serpent, supported by a golden standard, The glorious son of Dhritarashtra, the king Suyodhana,

13

एतस्याभिमुखं वीर रथं पररथारुजः प्रापयस्वैष तेजोभिप्रमाथी युद्धदुर्मदः

AI Translation: O hero, turn the chariot towards him, the destroyer of the chariots of the enemy. Lead it towards him, for he is a destroyer by his energy, invincible in battle.

14

एष द्रोणस्य शिष्याणां शीघ्रास्त्रः प्रथमो मतः एतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः

AI Translation: This is considered the first of Drona's disciples who is skilled in the use of weapons. I will show him my great skill in the use of weapons with these arrows.

15

नागकक्ष्या तु रुचिरा ध्वजाग्रे यस्य तिष्ठति एष वैकर्तनः कर्णो विदितः पूर्वमेव ते

AI Translation: The beautiful banner of the one who has a snake-like coil at the top of his flag This is Karna, the son of the sun, known to you before.

16

एतस्य रथमास्थाय राधेयस्य दुरात्मनः यत्तो भवेथाः संग्रामे स्पर्धत्येष मया सदा

AI Translation: "Arise, mount the chariot of that wicked son of Radha, and fight with him in battle, for he is always competing with me."

17

यस्तु नीलानुसारेण पञ्चतारेण केतुना हस्तावापी बृहद्धन्वा रथे तिष्ठति वीर्यवान्

AI Translation: He who, following the blue, with the banner of five stars, stands on a chariot with a bow and a pitcher, is valorous.

18

यस्य तारार्कचित्रोऽसौ रथे ध्वजवरः स्थितः यस्यैतत्पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति

AI Translation: Whose banner, a beautiful combination of the moon and sun, is on his chariot, Whose white, pure umbrella is on his head.

19

महतो रथवंशस्य नानाध्वजपताकिनः बलाहकाग्रे सूर्यो वा य एष प्रमुखे स्थितः

AI Translation: of a great army of chariots, with various flags and banners, like the sun at the head of a cloud, standing at the forefront,

20

हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते जातरूपशिरस्त्राणस्त्रासयन्निव मे मनः

AI Translation: Whose golden armor shines like the moon and sun, Whose head is adorned with gold, as if frightening my mind.

21

एष शांतनवो भीष्मः सर्वेषां नः पितामहः राजश्रियावबद्धस्तु दुर्योधनवशानुगः

AI Translation: This Shāntanava Bhīshma is the grandfather of all of us. Bound by the glory of kingship, he is under the control of Duryodhana.

22

पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् एतेन युध्यमानस्य यत्तः संयच्छ मे हयान्

AI Translation: "After this, he should go, so that he may not be an obstacle to me. " "When I fight with this, hold my horses."

Supplementary Passages:

4.50.22 After 22, D3 ins.: *909 एवमुक्तस्तदा तेन पार्थेनामित्रकर्शिना For 4-23, S subst. the foll. passage, in- serting it after 899* (which, in its turn, is ins. after 4.49.2ab): *910 अर्जुनः जाम्बूनदमयी वेदी ध्वजाग्रे यस्य दृश्यते शोणाश्चाश्वा रथे युक्ता द्रोण एष प्रकाशते आचार्यो निपुणो धीमान्ब्रह्मविच्छूरसत्तमः लाघवे चाप्रतिद्वन्द्वो दूरपाती महारथः (7ab) सुप्रसन्नमना वीरः कुरुष्वैनं प्रदक्षिणम् (7cd) अत्रैव चाविरोधेन एष धर्मः सनातनः (8ab) यदि मे प्रहरेद्द्रोणः शरीरे प्रहरिष्यतः (8cd) ततोऽस्मिन्प्रहरिष्यामि नान्यथा युद्धमस्ति मे भारताचार्यमुख्येन ब्राह्मणेन महात्मना तेन मे युध्यमानस्य मन्दं वाहय सारथे ध्वजाग्रे सिंहलाङ्गूलो दिक्षु सर्वासु भासते (9cd) भारताचार्यपुत्रस्तु सोऽश्वत्थामा विराजते ध्वजाग्रे दृश्यते यस्य बालसूर्यसमप्रभः दुर्जयः सर्वसैन्यानां देवैरपि सवासवैः तेन मे युध्यमानस्य मन्दं वाहय सारथे ध्वजाग्रे वृषभो यस्य दिक्षु सर्वासु शोभते आचार्यवरमुख्यस्तु कृप एष महारथः द्रोणेन च समो वीर्ये पितुर्मे परमः सखा तेन मे युध्यमानस्य मन्दं वाहय सारथे (15a) यस्य काञ्चनकम्बूभिर्हस्तिकक्ष्यापरिष्कृतः ध्वजः प्रकाशते दूराद्रथे विद्युद्गुणोपमः (15c) एष वैकर्तनः कर्णः प्रतिमानं धनुष्मताम् (16d) एष वै स्पर्धते नित्यं मया सह सुदुर्जयः जामदग्न्यस्य रामस्य शिष्यो ह्येष महारथः सर्वास्त्रकुशलः कर्णः सर्वशस्त्रभृतां वरः युद्धेऽप्रतिमवीर्यश्च दृढवेधी पराक्रमी अद्याहं युद्धमेतेन करिष्ये सूतबन्धुना युद्धमेतत्तु द्रष्टासि बलिवासवयोरिव महारथेन शूरेण सूतपुत्रेण धन्विना तेन मे युध्यमानस्य मन्दं वाहय सारथे (12ab) यस्य चैव रथोपस्थे नागो मणिमयो ध्वजः (12cd) एष दुर्योधनस्तत्र कौरवो यशसावृतः लब्धलक्षो दृढं वेधी लघुहस्तः प्रतापवान् तेन मे युध्यमानस्य मन्दं वाहय सारथे (17ab) यस्तु श्वेतावदातेन पञ्चतालेन केतुना वैडूर्यदण्डेन तथा तालवृक्षेण राजते (17cd) हस्तावापी बृहद्धन्वा सेनां तिष्ठति हर्षयन् रामेण जामदग्न्येन द्वैरथे न जितः पुरा शीघ्रश्च लघुवेधी च लघुहस्तः प्रतापवान् (21ab) एष शांतनवो भीष्मः सर्वेषां नः पितामहः ककुदः सर्वयोधानां सर्वशस्त्रभृतां वरः (21cd) राजश्रियावबद्धस्तु सुयोधनवशानुगः (22ab) पश्चादेष प्रयातव्यो न मे विघ्नकरो भवेत् (22cd) एतेन युध्यमानस्य यत्नात्संयच्छ मे हयान् इत्येतांस्त्वरितः पार्थः कथयित्वा तु चोत्तरे रूपतश्चिह्नतश्चैव युद्धाय त्वरते पुनः After 22, T ins.: *911 दृढवैरी सदास्माकं नित्यं कटुकभाषणः यस्याश्रयबलादेव धार्तराष्ट्रः ससौबलः अस्मान्निरस्य राज्याच्च पुनरद्यापि योत्स्यति

23

ततोऽभ्यवहदव्यग्रो वैराटिः सव्यसाचिनम् यत्रातिष्ठत्कृपो राजन्योत्स्यमानो धनंजयम्

M. N. Dutt: While fighting with him you should carefully restrain your horses. Thus addressed by him the son of Virata carefully drove Savyasachi's car, O king, to where Kripa stood in anticipation of the battle.

***