Verse Search

My Highlights

No highlights found.

Book 04 / Chapter 051

Critical Edition

1

वैशंपायन उवाच तान्यनीकान्यदृश्यन्त कुरूणामुग्रधन्विनाम् संसर्पन्तो यथा मेघा घर्मान्ते मन्दमारुताः

M. N. Dutt: Vaishampayana said The infantry of those dreadful Kuru bowmen looked like the clouds in the rains moving about before the gentle wind.

2

अभ्याशे वाजिनस्तस्थुः समारूढाः प्रहारिभिः भीमरूपाश्च मातङ्गास्तोमराङ्कुशचोदिताः

AI Translation: The horses stood close by, mounted by the strikers. The elephants, with terrible forms, goaded by the goads and hooks,

Supplementary Passages:

4.51.2 After 2, B (except B2) Dn D3.5. 10-12 ins.: *912 महामात्रैः समारूढा विचित्रकवचोज्ज्वलाः while D7 ins.: आरूढा युद्धकुशलैः शिक्षितैर्गजसादिभिः

3

ततः शक्रः सुरगणैः समारुह्य सुदर्शनम् सहोपायात्तदा राजन्विश्वाश्विमरुतां गणैः

AI Translation: Then Shakra, having ascended Sudarshana with the hosts of gods, together with the groups of Vishva and Maruts, O king,

Supplementary Passages:

4.51.3 After 3ab, B4 D3 ins.: *913 सर्वान्देवान्समारोप्य वैडूर्यकवचावृतम्

4

तद्देवयक्षगन्धर्वमहोरगसमाकुलम् शुशुभेऽभ्रविनिर्मुक्तं ग्रहैरिव नभस्तलम्

AI Translation: Filled with gods, yakshas, gandharvas, and mahoragas, It shone like the sky freed from clouds, with the planets.

Supplementary Passages:

4.51.4 After 4, D7 ins.: *914 दर्शनार्थं तदा सर्वे समेता वासवादयः

5

अस्त्राणां च बलं तेषां मानुषेषु प्रयुज्यताम् तच्च घोरं महद्युद्धं भीष्मार्जुनसमागमे

AI Translation: And the power of the weapons should be used among humans. And that terrible great battle at the meeting of Bhishma and Arjuna,

Supplementary Passages:

4.51.5 After 5, B (B3 marg.) Dn D5.6.7 (marg. sec. m.).10-12 ins.: *915 द्रष्टुमभ्यागता देवाः स्वविमानैः पृथक्पृथक्

6

शतं शतसहस्राणां यत्र स्थूणा हिरण्मयाः मणिरत्नमयाश्चान्याः प्रासादमुपधारयन्

AI Translation: Where there are hundreds of thousands of golden pillars, And others made of precious gems, consider the palace.

7

तत्र कामगमं दिव्यं सर्वरत्नविभूषितम् विमानं देवराजस्य शुशुभे खेचरं तदा

AI Translation: There, the divine vehicle that goes wherever one wishes, adorned with all jewels, the palace of the king of the gods, shone in the sky at that time.

8

तत्र देवास्त्रयस्त्रिंशत्तिष्ठन्ति सहवासवाः गन्धर्वा राक्षसाः सर्पाः पितरश्च महर्षिभिः

M. N. Dutt: There were the thirty three deities headed by Vasava and with Gandharvas, Rakshasas, Nagas, Pitris and the great Rishis.

9

तथा राजा वसुमना बलाक्षः सुप्रतर्दनः अष्टकश्च शिबिश्चैव ययातिर्नहुषो गयः

AI Translation: King Vasumana, Balaaksha, Supratardana, Ashtaka, Shibi, Yayati, Nahusha, Gaya,

10

मनुः क्षुपो रघुर्भानुः कृशाश्वः सगरः शलः विमाने देवराजस्य समदृश्यन्त सुप्रभाः

AI Translation: Manu, Kṣupa, Raghu, Bhānu, Kṛśāśva, Sagara, Śala were seen in the chariot of the king of the gods, shining brightly.

11

अग्नेरीशस्य सोमस्य वरुणस्य प्रजापतेः तथा धातुर्विधातुश्च कुबेरस्य यमस्य च

AI Translation: of Agni, of Ishana, of Soma, of Varuna, of Prajapati, and of Dhatri, Vidhatri, Kubera, and Yama,

12

अलम्बुसोग्रसेनस्य गन्धर्वस्य च तुम्बुरोः यथाभागं यथोद्देशं विमानानि चकाशिरे

AI Translation: of Alambusa and Ugrasenas, and of the Gandharva Tumburu, shone forth according to their respective shares and destinations.

13

सर्वदेवनिकायाश्च सिद्धाश्च परमर्षयः अर्जुनस्य कुरूणां च द्रष्टुं युद्धमुपागताः

M. N. Dutt: All the deities, the Siddhas and the great Rishis came there to witness the fight between Arjuna and the Kurus.

14

दिव्यानां तत्र माल्यानां गन्धः पुण्योऽथ सर्वशः प्रससार वसन्ताग्रे वनानामिव पुष्पताम्

M. N. Dutt: The holy fragrance of the celestial garlands spread all over like the odour of the blossoming trees in the beginning of the spring.

15

रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम् आतपत्राणि वासांसि स्रजश्च व्यजनानि च

M. N. Dutt: The umbrellas, clothes, flags, fans, and the jewels of the deities shone there when they came.

16

उपशाम्यद्रजो भौमं सर्वं व्याप्तं मरीचिभिः दिव्यान्गन्धानुपादाय वायुर्योधानसेवत

M. N. Dutt: The dust of the earth was removed and every where was permeated by the lustre. And carrying the divine odour the wind gratified the warriors.

17

प्रभासितमिवाकाशं चित्ररूपमलंकृतम् संपतद्भिः स्थितैश्चैव नानारत्नावभासितैः विमानैर्विविधैश्चित्रैरुपानीतैः सुरोत्तमैः

AI Translation: Adorned with various forms, it was illuminated like the sky, With those flying and standing, illuminated with various jewels, With various chariots, adorned with various forms, brought by the best of gods,

Supplementary Passages:

4.51.17 After 17, B Dn D3 (om. lines 2-3).5.6. 7 (marg. sec. m.).10-12 ins.: *916 वज्रभृच्छुशुभे तत्र विमानस्थः सुरैर्वृतः बिभ्रन्मालां महातेजाः पद्मोत्पलसमायुताम् विप्रेक्ष्यमाणो बलभिन्नातृप्यत्सुमहाहवम् For this adhy., S subst. the foll. passage, reading it after adhy. 47: *917 वैशंपायनः ततः सुदर्शनं नाम प्रासादं हरिवाहनः सर्वान्देवान्समारोप्य प्रययौ यत्र पाण्डवः स्थूणाराजिसहस्रं तु यस्य मध्ये प्रतिष्ठितम् तत्र सूर्यपथेऽतिष्ठद्विमला वासवी सभा आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः तत्र श्वेतानि छत्राणि काञ्चनस्फाटिकानि च मणिरत्नविचित्राणि नानारूपाणि भागशः आकाशे समदृश्यन्त भानुमन्ति शुभानि च (11ab) अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च (11cd) तथा धातुर्विधातुश्च मित्रस्य धनदस्य च रुद्रस्य विष्णोः सवितुस्त्रिदशानां तथैव च काञ्चनानि च दामानि विविधाश्चोत्तमस्रजः दिव्यपुष्पाभिसंवीतास्तत्र छत्राणि भेजिरे (6cd) तस्मिंश्च राजन्प्रासादे दिव्यरत्नविभूषिते दिव्यगन्धसमाविष्टाः स्रजो दिव्याश्चकाशिरे (14ab) दिव्यश्च वायुः प्रववौ गन्धमादाय सर्वशः ऋतवः पुष्पमादाय समतिष्ठन्त भारत प्रजानां पतयश्चैव सप्त चैव महर्षयः तत्र देवर्षयश्चैव ते च राजन्दिवौकसः इन्द्रेण सहिताः सर्वे त्रिदशाश्च व्यवस्थिताः न पङ्को न रजस्तत्र प्रविवेश कथंचन आदित्यश्चापि रूक्षोऽत्र नातिवेलमिवातपत् (16cd) दिव्यं गन्धं समादाय वायुस्तत्राभिगच्छति आकाशं च दिशः सर्वा दर्शनीयमदृश्यत तत्र देवाः समारुह्य तं दिव्यं सर्वतःप्रभम् अम्बरे विमलेऽगच्छन्प्रासादं कामगामिनम् तत्र राजर्षयश्चैव समारूढा दिवौकसः (9ab) श्वेतो राजा वसुमनास्तथा भद्रः प्रतर्दनः नृगो ययातिर्नहुषो मान्धाता भरतः कुरुः अष्टकश्च शिबिः पूरुः स च राजा पुरूरवाः डम्भोद्भवः कार्तवीर्यो ह्यर्जुनः सगरस्तथा दिलीपो भरतः पूरुः शय्यातिः सोमकस्तथा हरिश्चन्द्रश्च तेजस्वी रघुर्दशरथस्तथा भगीरथश्च राजर्षिः सर्वे च जनमेजय पाण्डुश्चैव महाबाहुश्चामरव्यजनायुतः छत्रेण ध्रियमाणेन राजसूयश्रिया वृतः एते चान्ये च बहवः पुण्यशीलाः शुचिव्रताः कीर्तिमन्तो महावीर्यास्तत्रैवासन्दिवि स्थिताः गणाश्चाप्सरसां सर्वे गन्धर्वाश्चापि सर्वशः दैत्यराक्षसयक्षाश्च सुपर्णाः पन्नगास्तथा वासवप्रमुखाः सर्वे देवाश्च सगणेश्वराः आसंस्तत्र समारूढाः संग्रामं तं दिदृक्षवः इत्यम्बरे व्यवस्थाय प्रासादस्था दिवौकसः (13cd) एकस्य च बहूनां च द्रष्टुं युद्धं व्यवस्थिताः After line 6, T G2.3 M5 ins.: *918 तथा चित्राणि छत्राणि दिव्यरूपाणि भारत

***