Critical Edition
वैशंपायन उवाच ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत् एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः
M. N. Dutt: Vaishampayana said Thereupon having vanquished Vaikartanas son (Karna), Arjuna said to Virata's son (Uttara). "Take me to that army where is seen the emblem of golden palmyra.
अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे
M. N. Dutt: There our grand-father, Bhishma the son of Shantanu looking like an immortal, wait on his car, desirous of an encounter with me.
Supplementary Passages:
4.56.2 After 2cd, N (Ś1 missing) ins. a passage given in App. I (No. 49); while S ins.: *977 तालोऽसौ काञ्चनो यत्र वज्रवैडूर्यभूषितः अतीव समरे भाति मातरिश्वप्रकम्पितः दारुणं प्रहरिष्यामि रथवृन्दानि दारयन्
अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे
M. N. Dutt: You will see today the divine weapons, aglow with beauty, shot by me, flashing like lightning in the midst of clouds in the sky.
सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम दक्षिणेनाथ वामेन कतरेण स्विदस्यति इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः
AI Translation: The Kurus will see my Gandīva with a golden back. Which way will he shoot, with his right hand or his left? All my enemies will thus speculate about me.
शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम् नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम्
AI Translation: The river of blood, with wheels of chariots, with crocodiles and sharks, difficult to cross, I shall cause to flow, the river that flows to the other world.
पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम् वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः
AI Translation: With my sharp arrows with curved tips, I will cut down the forest of the Kurus, without leaving any of their hands, feet, heads, backs, arms, or branches.
Supplementary Passages:
4.56.6 After 6, S ins.: *978 तूणीशयाः सुपुङ्खाग्रा निशिता दुन्दुभिस्वनाः मया प्रमुक्ताः संग्रामे कुरून्धक्ष्यन्ति सायकाः
जयतः कौरवीं सेनामेकस्य मम धन्विनः शतं मार्गा भविष्यन्ति पावकस्येव कानने मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्
AI Translation: The army of the Kauravas will be defeated by me, the archer, alone. There will be a hundred paths for me, like fire in a forest. You will see the army as if it were a wheel that has been broken.
Supplementary Passages:
4.56.7 After 7, S reads 13; while N ins.: *979 इष्वस्त्रे शिक्षितं चित्रमहं दर्शयितास्मि ते
असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः
AI Translation: Standing on the chariot without fear, on level ground and on uneven ground, I shall pierce the mountain that stands covering the sky with the arrows.
अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च
AI Translation: Formerly, at the bidding of Indra, I struck down the Pulas, the Kalanjas and thousands and hundreds of others in battle.
Supplementary Passages:
4.56.9 After 9ab, S ins.: *980 मातलिं सारथिं कृत्वा निवातकवचान्रणे हतवान्सर्वतः सर्वान्धावतो युध्यतस्तदा निवातकवचान्हत्वा गाण्डीवास्त्रैः सहस्रशः After 9, S ins.: *981 असुरानहनं रौद्रान्रौद्रेणास्त्रेण सारथे
अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम् प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः
AI Translation: I have the firm fist of Indra, the skill of Brahma, The deep, tumultuous, variegated, and extremely pierced of Prajapati,
अहं पारे समुद्रस्य हिरण्यपुरमारुजम् जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम्
AI Translation: I have conquered the city of Hiranyapura on the other side of the ocean, having defeated sixty thousand chariot-warriors with fierce bows.
Supplementary Passages:
4.56.11 After 11, N ins.: *982 शीर्यमाणानि तूलानि प्रवृद्धेनेव वायुना मया कुरूणां वृन्दानि पात्यमानानि पश्य वै
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम् वनमादीपयिष्यामि कुरूणामस्त्रतेजसा
AI Translation: The tree of the banner, the grass of the leaves, the army of chariots and lions, I shall set ablaze with the brilliance of my weapons, O Kurus.
Supplementary Passages:
4.56.12 After 12ab, S ins.: *983 रथसिंहगणैर्युक्तं धनुर्वल्लीसमाकुलम्
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः एकः संकालयिष्यामि वज्रपाणिरिवासुरान्
AI Translation: I shall destroy them with my arrows having straight-shafted heads, just as the wielder of the thunderbolt destroys the demons.
Supplementary Passages:
4.56.13 After 13ab, N (B1 om.) ins.: *984 यत्तान्सर्वानतिबलान्योत्स्यमानानवस्थितान्
रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्
M. N. Dutt: I have obtained from Rudra, the Rudra, from Varuna the Varuna from Agni, the Agneya, from Vayu, the Vayavya, and from Indra the thunderbolt and other weapons.
Supplementary Passages:
4.56.14 After 14ab, T1 ins.: *985 सौर्यं सूर्यादहं वेद्मि याम्यं दण्डधरादपि After 14cd, D4.7 ins.: *986 गारुडं गरुडात्पाशुपतं पशुपतेरहम् नागास्त्रं वासुकेश्चापि सर्पेभ्यः सार्पबन्धनम् गन्धर्वगुह्यकेभ्यश्च गान्धर्वं गौह्यकं तथा महामायां प्रसाद्याहं मायास्त्रं चाप्यशिक्षयम् श्रीसूर्याच्चाक्षुषीं विद्यां ब्रह्मास्त्रं ब्रह्मणो मुखात् ग्रहास्त्राणि ग्रहेभ्योऽहं मोक्षं तत्तद्गुरोरपि आदानसंधानविकर्षणादि मोक्षोपसंहारमुखास्तु पञ्च दिव्यास्त्रयोगे खलु ये प्रकारास् तत्तद्गुरोमुखतः शिक्षिता मे प्रस्थापनं यद्दिव्यास्त्रं तथा संमोहनं परम् वैकल्यकरणादीनि दिव्यान्यस्त्राण्यनेकशः पश्य मां शत्रुसैन्येषु प्रयुञ्जन्तं प्रयोगतः प्राप्ते त्ववसरे तेषां यद्यद्योगेषु युञ्जताम् On the other hand, S (which om. 14ef) ins. after 14cd: *987 अन्यैर्देवैरहं प्राप्तः को मां विषहते पुमान् अद्य गाण्डीवनिर्मुक्तैः शरौघै रोमहर्षणैः कुरूणां पातयिष्यामि रथवृन्दानि धन्विनाम् After 14, D4.7 ins.: *988 दिक्पाललोकपालादीन्प्रसाद्यार्चनसेवया तपोभिश्चोग्ररूपैश्च चिरकालं जितेन्द्रियः तन्निष्ठश्च निराहारः स्थाणुभूतो निराश्रयः वर्षशीतातपसहः प्राप्तवानस्त्रसंचयम्
धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम् अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्
M. N. Dutt: I shall forsooth eradicate the dreadful Dhritarashtra forest although protected by many powerful heroes. Therefore remove your fear, O son of Virata."
एवमाश्वासितस्तेन वैराटिः सव्यसाचिना व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः
M. N. Dutt: Thus consoled by Savyasachin the son of Virata entered into that dreadful array of cars protected by Bhishma.
तमायान्तं महाबाहुं जिगीषन्तं रणे परान् अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम्
M. N. Dutt: The patient Bhishma (the son of river) withstood the mighty armed Arjuna advancing with a view to vanquish the Kurus in battle.
Supplementary Passages:
4.56.17 After 17, N (B1 om.) ins.: *989 तस्य जिष्णुरुपावृत्य ध्वजं मूले न्यपातयत् विकृष्य कलधौताग्रैः स विद्धः प्रापतद्रथात् On the other hand, S ins. after 17: *990 दुःशासनोऽभ्ययात्तूर्णमर्जुनं भरतर्षभ अन्येऽपि चित्राभरणा युवानो मृष्टकुण्डलाः
तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः
AI Translation: The wise ones, adorned with colorful garlands and ornaments, having mastered the arts, approached the one with the terrible bow, stretching their bows with their arms.
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्
AI Translation: Duhshāsana, Vikārṇa, Duḥsaha and Vivīnshati came and surrounded Bibhītshu, the archer.
Supplementary Passages:
4.56.19 After 19, S ins.: *991 तस्य दुःशासनः षष्टिं वामे पार्श्वे समर्पयत् अस्यतः प्रतिसंधाय कुन्तीपुत्रस्य धीमतः
दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम् द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे
M. N. Dutt: Having pierced Virata's son Uttara with a dart, the heroic Dushasana struck Arjuna on the breast with a second one.
तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम् चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम्
M. N. Dutt: Confronting him, Vishnu with a greatly sharpened arrow with the wings of a vulture, cut off his bow made of burnished gold.
अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः
M. N. Dutt: He then wounded him on his breast with five arrows. Assailed by the arrows of Partha, he left the battle-field.
तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः
M. N. Dutt: Then with sharp and straight arrows having the wings of vultures, Dhritarashtra's son Vikarana sounded Arjuna, the slayer of hostile heroes.
ततस्तमपि कौन्तेयः शरेणानतपर्वणा ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात्
M. N. Dutt: Immediately also the son of Kunti wounded him on his forehead with straight arrows. Thus wounded, he fell down from his chariot.
ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे
M. N. Dutt: With a view to rescue his brother in battle, Dussaha, accompanied by Vivinshati, approached Partha and covered him with sharp arrows.
तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्
M. N. Dutt: Not the least excited Dhananjaya simultaneously struck both of them with a pair of sharp arrows and destroyed the horses of the both.
तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ अभिपत्य रथैरन्यैरपनीतौ पदानुगैः
M. N. Dutt: Having their horses slain and persons wounded, both the sons of Dhritarashtra were taken away by their followers who came there with other chariots.
Supplementary Passages:
4.56.27 After 27, K2 ins.: *992 तथैव क्रुद्धः सुबलस्य पुत्रो बाणैश्च पीतैर्निशितैर्धनुर्धरम् त्रिभिश्च विव्याध ननाद शूरः पुनश्च विव्याध त्रिभिः पृषत्कैः स तं दृष्ट्वा समायान्तं नदन्तं रणमूर्धनि जग्राह शूरो निशितांस्त्रयोदश शिलीमुखान् एकेन चापं हस्ताच्च चतुर्भिश्चतुरो हयान् द्वाभ्यां च मुकुटं तस्य शिरस्त्वेकेन सारथिः रथं च द्वाभ्यां तिलशः कृतवानर्जुनो रणे तथा तदैनं हृदये त्रिभिर्बाणैरजिह्मगैः सोऽतिविद्धो बलवता अर्जुनेन महात्मना हताश्वं रथमुत्सृज्य गतो यत्र सुयोधनः ननाद तत्र बीभत्सुर्जित्वा राज्ञोऽनुजान्रणे while S ins.: *993 व्यद्रावयत्स शेषांश्च धृतराष्ट्रात्मजांस्तदा विद्राव्य च रणे पार्थो रणभूमिं व्यराजयत्
सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः किरीटमाली कौन्तेयो लब्धलक्षो महाबलः
M. N. Dutt: Bibhatsu, never defeated in battle-the highly powerful son of Kunti, adorned with a diadem and having sure aim, covered all the quarters with his arrows.
Supplementary Passages:
4.56.28 After 28cd, S (M2 om. lines 1-6) ins.: *994 पातयन्नुत्तमाङ्गानि बाहूंश्च परिघोपमान् अशोभत महातेजाः शतशो रुक्ममालिनः कमलदिनकरेन्दुसंनिभैः सितदशनैः सुमुखाक्षिनासिकैः रुचिरमुकुटकुण्डलैर्मही पुरुषशिरोभिरवास्तृता बभौ सुनसं चारु दीप्ताक्षं क्लृप्तश्मश्रु स्वलंकृतम् अदृश्यत शिरश्छिन्नमनीकं हेमकुण्डलम् एवं तत्प्रहतं सैन्यं समन्तात्प्रद्रुतं भयात् M1.3.4 ins. after line 1: M5, before line 1: *995 सर्वा दिशश्चानुदिशः कौन्तेयस्याभितो रथम् After line 6, M1 ins.: *996 अर्जुनस्य शरास्तीक्ष्णा गाण्डीवात्तस्य निःसृताः After line 8, M1 (om. line 3).4.5 ins.: *997 धावन्त इव पार्थस्य निरमित्रं चिकीर्षवः ययुः पुङ्खाग्रपातेन फल्गुनस्य पतत्रिणः आददाना रथेभ्यश्च प्राणान्बाहूञ्शिरांसि च आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः क्षिपतो लघु चित्रं च सव्यं दक्षिणमस्यतः पार्थस्य विशिखा जग्मुः शतशोऽथ सहस्रशः प्रमथन्नुत्तमाङ्गानि सोत्सेधानि धनुष्मताम् प्राहिणोत्त्रिशतं योधान्कुरूणामाततायिनाम् प्रवृत्तान्रथनीडेभ्यः क्षत्रियान्क्षत्रियर्षभः प्रगाढधन्वा कौन्तेयो लब्धलक्षः प्रतापवान्