Verse Search

My Highlights

No highlights found.

Book 04 / Chapter 066

Critical Edition

1

विराट उवाच यद्येष राजा कौरव्यः कुन्तीपुत्रो युधिष्ठिरः कतमोऽस्यार्जुनो भ्राता भीमश्च कतमो बली

M. N. Dutt: Virata said If this be the king of Kurus, Yudhishthira, the son of Kunti, who, amongst those is his brother Arjuna and who the powerful Bhima?

2

नकुलः सहदेवो वा द्रौपदी वा यशस्विनी यदा द्यूते जिताः पार्था न प्राज्ञायन्त ते क्वचित्

M. N. Dutt: Which of them is Nakula, who Sahadeva and where is the illustrious Draupadi? From the time of their defeat at dice, the sons of Pritha have not been known by any.

3

अर्जुन उवाच य एष बल्लवो ब्रूते सूदस्तव नराधिप एष भीमो महाबाहुर्भीमवेगपराक्रमः

M. N. Dutt: Arjuna said This one, O king, your cook, known as Ballava, is Bhima of dreadful prowess and energy.

4

एष क्रोधवशान्हत्वा पर्वते गन्धमादने सौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत्

M. N. Dutt: It was he who, having killed the angry Rakshasas on the Gandhamadana mountain, secured for Draupadi fragrant celestials flowers.

5

गन्धर्व एष वै हन्ता कीचकानां दुरात्मनाम् व्याघ्रानृक्षान्वराहांश्च हतवान्स्त्रीपुरे तव

M. N. Dutt: He is the Gandharva who killed the wicked-souled Kichaka's, and it was he who slew the tigers, bears, and boars in your inner apartment.

Supplementary Passages:

4.66.5 After 5, S ins.: *1133 हिडिम्बं च बकं चैव किर्मीरं च जटासुरम् हत्वा निष्कण्टकं चक्रे अरण्यं सर्वतः सुखम्

6

यश्चासीदश्वबन्धस्ते नकुलोऽयं परंतपः गोसंख्यः सहदेवश्च माद्रीपुत्रौ महारथौ

M. N. Dutt: He, who is the keeper of your horses is Nakula, the slayer of horses. The one, in charge of your kine, is Sahadeva. Both the sons of Madri are great car-warriors.

7

शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ नानारथसहस्राणां समर्थौ पुरुषर्षभौ

M. N. Dutt: Adorned with beautiful ornaments and robes, and illustrious, these two foremost of Bharatas are capable of withstanding a thousand car-warrior.

8

एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी सैरन्ध्री द्रौपदी राजन्यत्कृते कीचका हताः

M. N. Dutt: This lotus-eyed, beautiful, waited Sairandhri, of sweet smiles, is Draupadi, O king, for whom the Kichakas were slain.

Supplementary Passages:

4.66.8 After 8, S (which om. 9) ins.: *1134 द्रुपदस्य प्रिया पुत्री धृष्टद्युम्नस्य चानुजा अग्निकुण्डात्समुद्भूता द्रौपदीत्यवगम्यताम् भीमः अस्त्रज्ञो दुर्लभः कश्चित्केवलं पृथिवीमनु धनुःस्पृशां तथा श्रेष्ठः कौन्तेयोऽयं धनंजयः एतेन खाण्डवं यस्य अकामस्य शतक्रतोः दग्धं नागवनं चैव सह नागैर्नराधिप वर्षं च शरवर्षेण वारितं दुर्जयेन वै करमाहारिताः सर्वे पार्थिवाः पृथिवीपते स्त्रीवेषं कृतवानेष तव राजन्निवेशने बृहन्नळेति यामाहुरर्जुनं जयतां वरं

9

अर्जुनोऽहं महाराज व्यक्तं ते श्रोत्रमागतः भीमादवरजः पार्थो यमाभ्यां चापि पूर्वजः

M. N. Dutt: I am Arjuna, Oking. You might have heard that I am the son of Pritha, the younger brother of Bhima and the elder brother of the twins.

10

उषिताः स्म महाराज सुखं तव निवेशने अज्ञातवासमुषिता गर्भवास इव प्रजाः

M. N. Dutt: We have spend happily the period of our exile, undiscovered, in your house, like creatures living in the womb.

11

वैशंपायन उवाच यदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः तदार्जुनस्य वैराटिः कथयामास विक्रमम्

M. N. Dutt: Vaishampayana said After Arjuna had spoken of the five heroic sons of Pandu, the son of Virata then described his prowess. Uttara, too, again identified the sons of Pritha. (He said):

Supplementary Passages:

4.66.11 B4.5 D9 ins. after 11cd: D4.7.8, after the repetition of 11cd: D5, after 1142*: *1135 महेन्द्रकल्पस्य तदा संप्रहृष्टतनूरुहः N ins. after (the first occurrence of) 11 (B4.5 D1.2, after 11ab: D9, after 1135*): *1136 पुनरेव तु तान्पार्थान्दर्शयामास चोत्तरः उत्तर उवाच य एष जाम्बूनदशुद्धगौर- तनुर्महासिंह इव प्रवृद्धः प्रचण्डघोणः पृथुदीर्घनेत्रस् ताम्रायताक्षः कुरुराज एषः अयं पुनर्मत्तगजेन्द्रगामी प्रतप्तचामीकरशुद्धगौरः पृथ्वायतांसो गुरुदीर्घबाहुर् वृकोदरः पश्यत पश्यतैनम् यस्त्वेष पार्श्वेऽस्य महाधनुष्माञ् श्यामो युवा वारणयूथपोपमः सिंहोन्नतांसो गजराजगामी पद्मायताक्षोऽर्जुन एष वीरः राज्ञः समीपे पुरुषोत्तमौ यौ यमाविमौ विष्णुमहेन्द्रकल्पौ मनुष्यलोके सकले समोऽस्ति ययोर्न रूपे न बले न शीले आभ्यां तु पार्श्वे कनकोत्तमाङ्गी यैषा प्रभा मूर्तिमतीव गौरी नीलोत्पलाभा सुरदेवतेव कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः K cont.: *1137 वैशंपायन उवाच एवं निवेद्य तान्पार्थान्पाण्डवान्पञ्च भूपतेः On the other hand, after 1136*, B1.3 Dn D3.5.9-12 repeat 11cd; while B2 D6 repeat (the whole of) 11. Furthermore after 1136*, B4.5 read and D4.7.8 repeat 11cd, which is followed by 1135*. Finally, after 11cd (see above), D1.2 ins.: *1138 भूतपूर्वं न कस्यापि हर्षेणोत्फुल्ललोचनः while after the repetition of 11cd, D10 ins.: *1139 विराटनृपतेरग्रे यथादृष्टं कुरून्प्रति

12

अयं स द्विषतां मध्ये मृगाणामिव केसरी अचरद्रथवृन्देषु निघ्नंस्तेषां वरान्वरान्

M. N. Dutt: It was he who slew the enemies, like a lion killing the deer. He moved about on the cars, killing the car-warriors.

13

अनेन विद्धो मातङ्गो महानेकेषुणा हतः हिरण्यकक्ष्यः संग्रामे दन्ताभ्यामगमन्महीम्

M. N. Dutt: A huge elephant was pierced with a shaft and killed by him. That one of huge tusks, and bedecked with gold, fell down on earth.

14

अनेन विजिता गावो जिताश्च कुरवो युधि अस्य शङ्खप्रणादेन कर्णौ मे बधिरीकृतौ

M. N. Dutt: By him the kine have been rescued, the Kurus vanquished; and, by the sound of his conch, my ears were deafened.

Supplementary Passages:

4.66.14 After 14ab, D1.2 ins.: *1140 तस्य तत्कर्म वीरस्य न मया तात तत्कृतम् T G2 ins. after 14: *1141 जायते रोमहर्षो मे संस्मृत्यास्य धनुर्ध्वनिम् ध्वजस्य वानरं भूतैराक्रोशन्तं सहानुगैः नाददानं शरान्घोरान्न मुञ्चन्तं शरोत्करान् न कार्मुकं विकर्षन्तमेनं पश्यामि संयुगे एतद्धनुःप्रमुक्ताश्च शराः पुङ्खानुपुङ्खिनः नालक्ष्येषु रणे पेतुर्नाराचा रक्तभोजनाः तीक्ष्णनाराचसंकृत्तशिरोबाहूरुवक्षसाम् कलेवराणि दृश्यन्ते योधानां साश्वसादिनाम् अनेन तटिनी तत्र शोणिताम्बुप्रवाहिनी प्रवर्तिता भीमरूपा यां स्मृत्वाद्यापि मे मनः प्रकम्पते चण्डवायुकम्पिता कदली यथा T G2 cont.: G1.3 M ins. after 14: D1.2 (both om. lines 1-2), after 1140*: D5, (after uttara u., which is ins. in some MSS.) before 12: D7, after 13: *1142 अनेन तात वीरेण भीष्मद्रोणमुखा रथाः दुर्योधनेन सहिता निर्जिता भीमकर्मणा अयं द्रवन्तं भीतं मां देवपुत्रो न्यवारयत् अस्य बाहुबलेनास्मि जीवन्प्रत्यागतः पुनः

15

तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् उत्तरं प्रत्युवाचेदमभिपन्नो युधिष्ठिरे

M. N. Dutt: Hearing the words of Uttara, the powerful king of of Matsya's, who had insulted Yudhishthira, said to him.

16

प्रसादनं पाण्डवस्य प्राप्तकालं हि रोचये उत्तरां च प्रयच्छामि पार्थाय यदि ते मतम्

M. N. Dutt: Methinks, the time has come to propitiate the Pandavas. If you like I shall confer Uttara (my daughter) upon Arjuna.

17

उत्तर उवाच अर्च्याः पूज्याश्च मान्याश्च प्राप्तकालं च मे मतम् पूज्यन्तां पूजनार्हाश्च महाभागाश्च पाण्डवाः

M. N. Dutt: Uttara said Methinks, the time has come for honoring the illustrious sons of Pandu, who are worthy of honour, respect and adoration.”

18

विराट उवाच अहं खल्वपि संग्रामे शत्रूणां वशमागतः मोक्षितो भीमसेनेन गावश्च विजितास्तथा

M. N. Dutt: Virata said When I passed into the hands of the enemies in battle, it was Bhimasena who saved me and rescued the kine.

19

एतेषां बाहुवीर्येण यदस्माकं जयो मृधे वयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम् प्रसादयामो भद्रं ते सानुजं पाण्डवर्षभम्

AI Translation: By the strength of their arms, we have won this battle. All of us, together with our ministers, are seeking the favor of Kunti's son, Yudhishthira, the bull among the Pandavas, along with his younger brothers.

20

यदस्माभिरजानद्भिः किंचिदुक्तो नराधिपः क्षन्तुमर्हति तत्सर्वं धर्मात्मा ह्येष पाण्डवः

AI Translation: O king, we have spoken a few words without knowing. May the righteous Pandava forgive all that.

21

वैशंपायन उवाच ततो विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार राज्यं च सर्वं विससर्ज तस्मै; सदण्डकोशं सपुरं महात्मा

M. N. Dutt: Vaishampayana said Then noble Virata, made an alliance wit the king and offered him the entire kingdom together with his scepter, treasury and city.

22

पाण्डवांश्च ततः सर्वान्मत्स्यराजः प्रतापवान् धनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रवीत्

M. N. Dutt: Then addressing all the Pandavas and particularly Dhananjaya, the king of Matsya's, again and again, said "Oh good fortune."

23

समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः युधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ

M. N. Dutt: Then, having repeatedly embraced and smelt the heads of Yudhishthira, Bhima and the two sons of Madri,

24

नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत्

M. N. Dutt: Virata, the lord of armies, was not satiated with seeing them. He, then delightedly, said to the king Yudhishthira.

25

दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् दिष्ट्या च पारितं कृच्छ्रमज्ञातं वै दुरात्मभिः

M. N. Dutt: "By good luck, I have got you, all safe from the forest. And by good luck, it is that you spent the period of exile, undiscovered by these wicked ones.

Supplementary Passages:

4.66.25 After 25, D4.7 ins.: *1143 पृच्छेऽहं कारणं किंचिदुच्यतां तद्यथातथम् देवानामपि शक्तिर्वो रूपप्रावर्तकारिणी मन्येऽप्यहं यथा पूर्वं रूपं वो नाधुना तथा यदा मनुष्यसामान्यमभूदेतर्हि देववत् रूपं कान्तिं बलं धैर्यं गुणाः सर्वेऽप्यनीदृशाः सूर्याग्निरुद्रवज्जाता यूयं देवोपमाः क्षणात् युधिष्ठिर उवाच सत्यशौचतपोभिर्नो गुणैः प्रीताः सुरा ददुः धर्मदुर्गाप्रभृतयो रूपप्रावर्तकृद्गुणान्

26

इदं च राज्यं नः पार्था यच्चान्यद्वसु किंचन प्रतिगृह्णन्तु तत्सर्वं कौन्तेया अविशङ्कया

M. N. Dutt: I make a gift of this my kingdom and what else I have, to the sons of Pritha. May they accept it without any hesitation.

Supplementary Passages:

4.66.26 For 15-26, S subst.: *1144 वैशंपायनः (15ab) तस्य तद्वचनं श्रुत्वा मत्स्यराजः प्रतापवान् (22ca,23) धनंजयं परिष्वज्य पांडवानथ सर्वशः नमस्कृत्वा तु राजानं राजन्राज्येऽभिषेचितम् (24ab) नातृप्यद्दर्शने तेषां विराटो वाहिनीपतिः (24cd) संप्रीयमाणो राजानं युधिष्ठिरमथाब्रवीत् (25ab) दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनो वनात् (25cd) दिष्ट्या च चरितं कृच्छ्रमज्ञातं तैर्दुरात्मभिः (26ab) इदं राज्यं च वः सर्वं यच्चास्ति वसु किंचन (26cd) अविभक्तमेतद्भवतां नोत्कण्ठां कर्तुमर्हथ Colophon. वैशंपायनः विराटस्य वचः श्रुत्वा पार्थस्य च महात्मनः (15cd) उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे (16ab) प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः (16cd) { उत्तरां च वरारोहां पार्थस्यामित्रकर्शन { प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे (19cd) वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् प्रसाद्य ह्युपतिष्ठामो राजन्किं करवामहे (18a,c) राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः (19a,18d) एतेषां बाहुवीर्येण गावश्च विजितास्त्वया कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः (17a) अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः (17b) अर्घ्यार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् (17cd) पूज्यन्तां पूजनीयाश्च महाभागाश्च पाण्डवाः न ह्येते कुपिताः शेषं कुर्युराशीविषोपमाः तस्माच्छीघ्रं प्रपद्यामः कुन्तीपुत्रं युधिष्ठिरम् (19e) प्रसादयाम भद्रं ते सह पार्थैर्महात्मभिः उत्तरामग्रतः कृत्वा शिरःस्नातामलंकृताम् जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् कुले च जन्म महति फल्गुनस्य च विक्रमम् उत्तरात्पाण्डवाञ्श्रुत्वा विराटो दुःखमोहितः उत्तरां चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ततो विराटः सामात्यः सकलत्रः सबान्धवः उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः विराटः प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः शिरसाभिप्रपन्नोऽस्मि सपुत्रपरिचारकः (20ab) यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः अवमत्य कृतं सर्वमयुक्तं प्राकृतो यथा (20cd) क्षन्तुमर्हति तत्सर्वं धर्मज्ञो बन्धुवत्सलः यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव सदण्डकोशं विसृजे तव भृत्योऽस्मि पार्थिव वयं च सर्वे सामात्या भवन्तं शरणं गताः वैशंपायनः तं धर्मराजः पतितं महीतले सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् उवाच वाक्यं परलोकदर्शनः प्रनष्टमन्युर्गतशोकमत्सरः युधिष्ठिरः न ते भयं पार्थिव विद्यते मयि प्रतीतरूपोऽस्म्यनुचिन्त्य मानसम् एतत्त्वया सम्यगिहोपपादितं द्विजैरमात्यैः सदृशैश्च पण्डितैः इमां च कन्यां समलंकृतां भृशं समीक्ष्य तुष्टोऽस्मि नरेन्द्रसत्तम क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव न चैव किंचित्पश्यामि विकृतं ते नराधिप वैशंपायनः (21a) ततो विराटः परमाभितुष्टः (21b) समेत्य राज्ञा समयं चकार (21c) राज्यं च सर्वं विससर्ज तस्मै (21d) सदण्डकोशं सपुरं महात्मा Colophon. विराटः यच्च वक्ष्यामि ते सर्वं मा शङ्केथा युधिष्ठिर इदं सनगरं राष्ट्रं सवनं सवधूजनम् युष्मभ्यं संप्रदास्यामि भोक्ष्याम्युच्छिष्टमेव च अहं वृद्धश्चिरं राजन्भुक्तभोगश्चिरं सुखम् राज्यं दत्त्वा तु युष्मभ्यं प्रव्रजिष्यामि काननम्

27

उत्तरां प्रतिगृह्णातु सव्यसाची धनंजयः अयं ह्यौपयिको भर्ता तस्याः पुरुषसत्तमः

M. N. Dutt: Let Savyasachin, Dhananjaya, accept Uttara (my daughter). That foremost of men is her becoming husband."

28

एवमुक्तो धर्मराजः पार्थमैक्षद्धनंजयम् ईक्षितश्चार्जुनो भ्रात्रा मत्स्यं वचनमब्रवीत्

M. N. Dutt: Thus addressed, the pious king Yudhishthira looked towards Dhananjaya. And looked at by his brother, Arjuna said to the king of Matsya's.

Supplementary Passages:

4.66.28 After 28, S (M4 hapl. om. line 2) ins.: *1145 वयं वनान्तरात्प्राप्ता न ते राज्यं गृहामहे किं तु दुर्योधनादीनां राज्ञां राज्यं गृहामहे

29

प्रतिगृह्णाम्यहं राजन्स्नुषां दुहितरं तव युक्तश्चावां हि संबन्धो मत्स्यभारतसत्तमौ

M. N. Dutt: Oking, I shall accept your daughter as my daughter-in-law. Such an alliance between the Matsya's and Bharatas is indeed proper..

***