Critical Edition
संजय उवाच तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन्
M. N. Dutt: Sanjaya said When the blare of conchs and sound of bugles became very high in the battle-field, those two, Suta's son Vaikartana and Arjuna mounted on white horses, closed each other, O king, on account of the vile policy of your son.
Supplementary Passages:
8.65.1 After 1, T1.2 G M1-3 ins.: *1025 आशीविषावग्निमिवोत्सृजन्तौ वैरं मुखाभ्यामभिनिश्वसन्तौ यशस्विनौ जज्वलतुर्मृधे तदा घृतावसिक्ताविव हव्यवाहौ
यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे तथा समाजग्मतुरुग्रवेगौ; धनंजयश्चाधिरथिश्च वीरौ
M. N. Dutt: Those two dreadful heroes Dhananjaya and Adhiratha's son encountered each other like two Himalayan elephants with full-grown tusks, madly fighting for a she-elephant.
बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ
M. N. Dutt: Those two warriors, with bows twanging loudly and sending forth hosts of shafts and the palms of their hands also producing great sounds when shooting them and their carwheels making rattling, encountered each other like the collision of two heavy masses of clouds or two mountains.
Supplementary Passages:
8.65.3 After 3, S (T3 missing) ins.: *1026 शरास्त्रशक्त्यृष्टिगदासिसर्पौ रोषानिलोद्भूतमहोर्मिमालौ यथाचलौ चाचलतस्तथा तौ यथार्णवौ चाययतुर्युगान्ते
प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः
M. N. Dutt: Those two great warriors fell upon and struck one one another with many powerful weapons resembling two mountains of towering height having many trees, herbs and creepers upon them and inhabited by various animals, rushing against each other.
Supplementary Passages:
8.65.4 After 4ab, G1 ins.: *1027 महामहीध्राविव पक्षवन्तौ
स संनिपातस्तु तयोर्महानभू;त्सुरेशवैरोचनयोर्यथा पुरा शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः
M. N. Dutt: The fight between those two great warriors became so terrible that it resembled the war between the king of heaven and the son of Virvahana in the days of old, it was impossible for other persons to bear up in such a fight and a river of blood flowed there, ghastly to look at; the limbs of both the warriors were badly cut in many places as also their drivers and horses.
प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः
M. N. Dutt: Those two cars, fitted with broad banners, when nearing each other, looked like two large lakes full of fishes and tortoises and many kinds of lotuses floating on it waters which was gently moved by the wind and resounding with the sweet voices of diverse kinds of birds.
उभौ महेन्द्रस्य समानविक्रमा;वुभौ महेन्द्रप्रतिमौ महारथौ महेन्द्रवज्रप्रतिमैश्च सायकै;र्महेन्द्रवृत्राविव संप्रजह्रतुः
AI Translation: Both of them were equal in valour to the great Indra, both of them were like the great Indra, great warriors. With arrows resembling the thunderbolt of the great Indra, they fought like the great
सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे चकम्पतुश्चोन्नमतः स्म विस्मया;द्वियद्गताश्चार्जुनकर्णसंयुगे
M. N. Dutt: Both are armies abounding in cars, horses, elephants, foot adorned with fine mail, vestments and weapons as also those that were in the skies (the gods) were all struck with terror in seeing that extraordinary fight between Karna and Arjuna.
भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया
M. N. Dutt: When Arjuna precipitated himself upon the son of Adhiratha like one furious elephant rushing against another with the intention of killing him, others out of excitement and joy uttered lion-like roars and raised their cloths shaking them fingers.
Supplementary Passages:
8.65.9 After 9, S (T3 missing) ins.: *1028 ततः कुरूणामथ सोमकानां शब्दो महान्प्रादुरभूत्समन्तात् यदार्जुनं सूतपुत्रोऽपराह्णे महाहवे शैलमिवाम्बुदोऽर्छत् तथैव चासीद्रथयोः समागमो महारणे शोणितमांसकर्दमे
अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः
M. N. Dutt: The Somakas called loudly to Partha, “Go haste and slay Karna and by that put an end to the hope of Dhritarashtra's son for empire."
तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः
M. N. Dutt: In the same way many of our warriors went to Karna and said "Kill Arjuna with your sharp arrows and let the sons of Pritha go again to the wilderness for good."
ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः
M. N. Dutt: Then Karna struck Arjuna with the powerful arrows and Arjuna also shot sharp arrows with great force against Karna's chest in return.
Supplementary Passages:
8.65.12 For 12, S (T3 missing) subst.: *1029 कर्णोऽथ पूर्वं दशभिः पृषत्कैर् गाण्डीवधन्वानमविध्यदाशु जघान तं चापि ततः किरीटी शरैस्तथाष्टादशभिः सुमुक्तैः S (T3 missing) cont.: *1030 पुनश्च कर्णस्त्वरितोऽथ पार्थं रथेषुभिस्तं दशभिर्जघान तं चापि पार्थो दशभिः शिताग्रैः कक्ष्यान्तरे तीक्ष्णमुखैरविध्यत् कर्णस्ततो भारत सांपराये घोरेऽतिवेलं रणसंविमर्दी जघान पार्थं नवभिः शिताग्रैः कक्ष्यान्तरे नागमिव प्रभिन्नम् ततोऽपराभ्यां युधि सूतपुत्रो द्वाभ्यां क्षुराभ्यां हरिमाशुकारी समाजघान त्वरया महात्मा यथा सुरेन्द्रं नमुचिः प्रसह्य तं पाण्डवः पञ्चभिरायसाग्रैर् आकर्णपूर्णैर्निजघान कर्णम् ते शोणितं तस्य पपुस्तदानीं कालस्य दूता इव पार्थबाणाः कर्णोऽपि पार्थं सहवासुदेवं समाचिनोद्भारत वत्सदन्तैः
परस्परं तौ विशिखैः सुतीक्ष्णै;स्ततक्षतुः सूतपुत्रोऽर्जुनश्च परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ
AI Translation: With very sharp arrows they pierced each other, the son of the charioteer and Arjuna. They were eager to kill each other in that battle, and they joyfully attacked each other in that terrible
Supplementary Passages:
8.65.13 After 13, N ins.: *1031 ततोऽर्जुनः प्रासृजदुग्रधन्वा भुजावुभौ गाण्डिवं चानुमृज्य नाराचनालीकवराहकर्णान् क्षुरांस्तथा साञ्जलिकार्धचन्द्रान् ते सर्वतः समकीर्यन्त राजन् पार्थेषवः कर्णरथं विशन्तः अवाङ्मुखाः पक्षिगणा दिनान्ते विशन्ति केतार्थमिवाशु वृक्षम् यानर्जुनः सभ्रुकुटीकटाक्षः कर्णाय राजन्नसृजज्जितारिः तान्सायकैर्ग्रसते सूतपुत्रः क्षिप्तान्क्षिप्तान्पाण्डवस्येषुसंघान् V1 B Da1 D1-7 cont.: K4 ins. after line 2 of 1046*: D8 after line 8 of 1031*: *1032 ततः कर्णो भार्गवेणाभिसृष्टं प्रादुश्चक्रे ब्राह्ममस्त्रं महात्मा ततः प्रजज्वाल तदस्त्रमुग्रं युगान्तसूर्यज्वलनप्रकाशम् D2 cont.: *1033 पातालमस्त्रेण निहत्य तेन जघान कर्णो नरनागसंघान् K4 cont. after 1032*: Dn1 cont. after 1031*: S (T3 missing) ins. after 13: *1034 ततोऽस्त्रमाग्नेयममित्रतापनं मुमोच कर्णाय सुरेश्वरात्मजः K4 S (T3 missing) cont.: *1035 धनंजयः संयुगमूर्धनि ज्वलन्न् अथ प्रजज्वाल तदस्त्रमुत्तमम् T2 cont.: *1036 ज्वालाभिरत्यर्थविनिःसृताभिर् अस्त्रस्य सूरस्य महेन्द्रसूनोः T2 cont.: Dn1 cont. after 1034*: *1037 भूम्यन्तरिक्षे च दिशोऽर्कमार्गं प्रावृत्य देहोऽस्य बभूव दीप्तः Dn1 T2 cont.: K4 cont. after 1034*: *1038 योधाश्च सर्वे ज्वलितान्तरार्ताः प्रदुद्रुवुस्तत्र विदग्धवस्त्राः शब्दश्च घोरोऽति बभूव तत्र यथा वने वेणुवनस्य दह्यतः K4 Dn1 T2 cont.: T1 G M cont. after 1035*: *1039 समीक्ष्य कर्णो ज्वलनास्त्रमुद्यतं स वारुणं तत्प्रशमार्थमाहवे समुत्सृजन्सूतसुतः प्रतापवान् स तेन वह्निं शमयां बभूव बलाहकास्त्रेण दिशस्तरस्वी चकार सर्वांस्तिमिरेण संवृताः Dn1 cont.: *1040 ततो धरित्रीधरतुल्यरोधसः समन्ततो वै परिवार्य वारिणा तैश्चातिवेगात्स तथाविधोऽपि नीतः शमं वह्निरतिप्रचण्डः बलाहकैश्चैव दिगन्तराणि व्याप्तानि सर्वाणि यथा नभश्च Dn1 cont.: K4 (om. line 1) ins. after st. 14: *1041 तथा च सर्वास्तिमिरेण वै दिशो मेघैर्वृता न प्रदृश्येत किंचित् K4 Dn1 cont.: S (T3 missing) cont. after 1039*: *1042 अपावहन्मेघगणांस्ततस्तान् समीरणास्त्रेण समीरितेन सः ततः सोऽस्त्रं दयितं देवराज्ञः प्रादुश्चक्रे वज्रममित्रतापनः गाण्डीवज्यां विमृशंश्चातिमन्युर् धनंजयः शत्रुसंघप्रमाथी ततः क्षुरप्राञ्जलिकार्धचन्द्रा नाराचनाळीकवराहकर्णाः गाण्डीवतः प्रादुरासन्सुतीक्ष्णाः सहस्रशो वज्रसमानवेगाः S (T3 missing) cont.: *1043 ते सर्वतः पर्यधावन्त घोराः पार्थेषवः कर्णरथं विहंगाः अधोमुखाः पक्षिगणा दिनान्ते निशानिकेतार्थमिवाशु वृक्षम् जग्राह तान्सूतपुत्रः पृषत्कैः क्षिप्तांस्तथा पाण्डवबाणसंघान् अमृष्यमाणस्य धनंजयस्य रणाजिरे त्वन्तकतुल्यकर्मा वैकर्तनो रोषपरीतचेता ज्योतिष्प्रभां यद्वदुदागतः सन् दिवाकरो नाशयते क्षणेन पार्थस्य तान्बाणगणान्समग्रान् व्यनाशयद्युध्यत एव कर्णः T2 cont.: K4 Dn1 cont. after 1042*: *1044 ते कर्णमासाद्य महाप्रभावाः सुतेजना गार्ध्रपत्राः सुवेगाः गात्रेषु सर्वेषु हयेषु चापि शरासने युगचक्रे ध्वजे च निर्भिद्य तूर्णं विविशुः सुतीक्ष्णास् तार्क्ष्यत्रस्ता भूमिमिवोरगास्ते शराचिताङ्गो रुधिरार्द्रगात्रः कर्णस्तदा रोषविवृत्तनेत्रः K4 Dn1 T2 cont.: T1 cont. after 1043*: *1045 दृढज्यमानाम्य समुद्रघोषं प्रादुश्चक्रे भार्गवास्त्रं महात्मा महेन्द्रशस्त्राभिमुखान्विमुक्तांश् छित्त्वा कर्णः पाण्डवस्येषुसंघान् K4 Dn1 T2 cont.: V1 B Da1 D1.3.4-8 cont. after 1032*: *1046 पार्थास्त्रमस्त्रेण निहत्य तेन जघान कर्णो नृगजाश्वसंघान् अमृष्यमाणस्तु महाविमर्दे महारथो भार्गवास्त्रप्रभावात् पाञ्चालानां प्रवरांश्चापि योधान् क्रोधाविष्टः सूतपुत्रस्तरस्वी बाणैर्विव्याधाहवे सुप्रमुक्तैः प्रहस्य कृष्णौ तु नरप्रवीरः ततः पाञ्चालाः सोमकाश्चापि राजन् कर्णेनाजौ पीड्यमानाः शरौघैः क्रोधाविष्टा विव्यधुस्तं समन्तात् तीक्ष्णैर्बाणैः सूतपुत्रं समेताः तानस्तांस्तैः स निकृत्याशु बाणान् पाञ्चालानां रथनागाश्वसंघान् अभ्यर्दयद्बाणगणैः प्रसह्य विक्षोभयन्समरे सूतपुत्रः ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्वनन्तः क्रुद्धेन सिंहेन यथैव नागा महाबला भीमबलेन तद्वत् पाञ्चालानां प्रवरान्संनिहत्य प्रस्पर्धमानान्बलिनो योधमुख्यान् ततः स राजन्विरराज कर्णः शरान्वमन्मेघ इवाम्बुधाराः कर्णस्य मत्वा तु जयं त्वदीयाः परां मुदं सिंहनादांश्च चक्रुः सर्वे ह्यमन्यन्त वशे कृतौ तौ कर्णेन कृष्णाविति कौरवेन्द्र तत्तादृशं प्रेक्ष्य महारथस्य कर्णस्य वीर्यं च परैरसह्यम् दृष्ट्वा तु कर्णेन धनंजयस्य संग्राममध्ये निहतं तदस्त्रम्
अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा अथाब्रवीत्पाणिना पाणिमाघ्न;न्संदष्टौष्ठो नृत्यति वादयन्निव कथं नु त्वां सूतपुत्रः किरीटि;न्महेषुभिर्दशभिरविध्यदग्रे
AI Translation: And the great-souled Bhimasena, unable to bear the great tumult, became angry there. Then he spoke, striking his hand with his hand, his lips clenched, dancing as if
Supplementary Passages:
8.65.14 For 14abcd, Dn1 T2 subst.: *1047 ततस्त्वमर्षी क्रोधसंदीप्तनेत्रो वातात्मजः पाणिना पाणिमार्छत् भीमोऽब्रवीदर्जुनं सत्यसंधम् अमर्षितो निःश्वसञ्जातमन्युः On the other hand, T1 (cont. after 1045*) G M (all ins. it after 1043*) subst. for 14abcd: *1048 रोषात्प्रदीप्तः सुमहान्विमर्दे भीमस्ततोऽक्रुध्यददीनसत्त्वः पाणिं स पाणौ विनिपिष्य रोषाद् अमर्षितो वाक्यमुवाच पार्थम् Dn1 T2 cont. after 1047*: D8 (marg.) after 1046*: *1049 कथं नु पापोऽयमपेतधर्मः सूतात्मजः समरेऽद्य प्रसह्य पाञ्चालानां योधमुख्याननेकान् निजघ्निवांस्तव जिष्णो समक्षम् Dn1 D8 T2 cont.: K4 V1 B Da1 D1.3-7 cont. after 1046*: Ś K1-3 after 1031*: D2 after 14abcd: *1050 पूर्वं दैत्यैरजितं कालकेयैः साक्षात्स्थाणोर्बाहुसंस्पर्शमेत्य After 14, K4 V1 B D T2 ins.: *1051 त्वया क्षिप्तांश्चाग्रसद्बाणसंघान्न् आश्चर्यमेतत्प्रतिभाति मेऽद्य कृष्णापरिक्लेशमनुस्मर त्वं यथाब्रवीत्षण्ढतिलान्स्म वाचः वाचः सुतीक्ष्णास्थिभिदोऽमनोज्ञाः सूतात्मजोऽयं गतभीर्दुरात्मा संस्मृत्य सर्वं तदिहाद्य पापं जह्याशु कर्णं युधि सव्यसाचिन् कस्मादुपेक्षां कुरुषे किरीटिन्न् उपेक्षितुं नायमिहाद्य कालः
यया धृत्या सर्वभूतान्यजैषी;र्ग्रासं ददद्वह्नये खाण्डवे त्वम् तया धृत्या सूतपुत्रं जहि त्व;महं वैनं गदया पोथयिष्ये
AI Translation: By that firmness with which you held all beings, giving food to the fire in Khandava, By that firmness, kill the son of the charioteer. I shall strike him with a
Supplementary Passages:
8.65.15 After 15, S (T3 missing) ins.: *1052 समेत्य पार्थं स नृशंसवादी जीवन्नायं यास्यति कालपक्वः
अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन्
M. N. Dutt: Then Vasudeva seeing that Partha's shafts were being frustrated by Kama, addressed him (Arjuna)-How is this O Kiritin, that your weapons are being baffled by Karna. O brave warrior, why are you looking like one confounded. Don't you see the Kauravas, behind Karna, are all uttering loud shouts of joy.
स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः संप्रहृष्टाः कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम्
AI Translation: O hero, why are you confused? Do you not understand? The Kurus are rejoicing, roaring. For they know that Karna, placed in the forefront, will be brought down by your
यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम्
M. N. Dutt: Beholding your weapons made useless by those of Karna. This day kill Karna with the same energy that you have shown Yuga after Yuga in killing persons possessed of dark weapons and fierce Rakshasas and the boonproud Asuras in battle.
Supplementary Passages:
8.65.18 After 18abc, B5 D6 S (T3 missing) ins.: *1053 दर्पोत्सिक्तं वीर्यमन्तं किरीटिन् After 18, B5 D6 ins.: *1054 कर्णं समासाद्य रिपुप्रमाथिन् On the other hand, S (T3 missing) ins. after 18: *1055 पार्थाहवे व्यक्तमस्त्रं समर्थम्
अनेन वास्य क्षुरनेमिनाद्य; संछिन्द्धि मूर्धानमरेः प्रसह्य मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः
M. N. Dutt: Concentrating all your might cut-off the head of your enemy with this Sudarshana of razor-like keen edge which I am giving to you, like Cakra who cut-off the head of Namuchi, his enemy with thunder.
किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम्
M. N. Dutt: You have even satisfied the great god Mahadeva (in battle) when he was disguised as a hunter; recovering the same patience, O hero, kill this son of Suta and his followers.
ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् प्रयच्छ राज्ञे निहतारिसंघां; यशश्च पार्थातुलमाप्नुहि त्वम्
M. N. Dutt: By that you will restore to this king Yudhishthira the sea-belted earth with its towns, villages and wealth and remove all his enemies from the face of the Earth and by that you will gain great fame.
Supplementary Passages:
8.65.21 After 21, N (except D2) ins.: *1056 स एवमुक्तोऽतिबलो महात्मा चकार बुद्धिं हि वधाय सौतेः On the other hand, S (T3 missing) ins. after 21: *1057 कर्णं पुरस्कृत्य नदन्ति सर्वे तवास्त्रमुर्व्यां प्रतिहत्य वीराः कुरु प्रयत्नं भरतप्रवीर द्रवन्त्यमी सृञ्जयसोमकाश्च दृष्ट्वा च कर्णं समरे प्रहृष्टं त्वां चापि दृष्ट्वा परिहीयमानम्
संचोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच
M. N. Dutt: Thus roused by Bhima and Janardana Partha,. of great prowess, internally remembered himself and for what he had come to the world and addressed Keshava and said-
प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे
M. N. Dutt: Now I will invoke a powerful and terrible weapon for the benefit of the world and slaughter of Suta's son; let me have your permission as also of Brahma's and Bhava's as well of all persons who have acquired the Brahmajnana.
Supplementary Passages:
8.65.23 After 23, Dn1 S (T3 missing) ins.: *1058 इति स्मोक्त्वा पाण्डवः सव्यसाची नमस्कृत्वा ब्रह्मणे सोऽमितात्मा
इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान्
AI Translation: Having thus spoken, he produced the unbearable Brahmas missile, which was to be accomplished by the mind. Then the one of great splendor enveloped all the directions and sub-directions with arrows.
Supplementary Passages:
8.65.24 After 24ab, N ins.: *1059 तदस्य हत्वा विरराज कर्णो मुक्त्वा शरान्मेघ इवाम्बुधाराः समीक्ष्य कर्णेन किरीटिनस्तु तथाजिमध्ये विहितं तदस्त्रम् ततोऽमर्षी बलवान्क्रोधदीप्तो भीमोऽब्रवीदर्जुनं सत्यसंधम् ननु त्वाहुर्वेदितारं महास्त्रं ब्राह्मं विधेयं परमं जनास्तत् पुनर्युक्तास्त्रमभितः किरीटिन्न् इति स्मोक्तोऽयोजयत्सव्यसाची After 24cd, K4 Dn1 S (T3 missing) ins.: *1060 गाण्डीवमुक्तैर्भुजगैरिवोग्रैर् दिवाकरांशुप्रतिमैर्ज्वलद्भिः After 24, K4 Dn1 S (T3 missing) ins.: *1061 प्राच्छादयन्कर्णरथं क्षणेन युगान्तवह्न्यर्ककरप्रकाशाः K4 Dn1 T2 cont.: *1062 ततश्च शूलानि परस्वधानि चक्राणि नाराचशतानि चैव निश्चक्रमुर्घोरतराणि योधास् ततो न्यहन्यन्त समन्ततोऽपि छिन्नं शिरः कस्यचिदाजिमध्ये पपात योधस्य परस्य कायात् भयेन सोऽप्याशु पपात भूमाव् अन्यः प्रनष्टः पतितं विलोक्य अन्यस्य सासिर्निपपात कृत्तो योधस्य बाहुः करिहस्ततुल्यः अन्यस्य सव्यः सह चर्मणा च क्षुरप्रकृत्तः पतितो धरण्याम् एवं समस्तानपि योधमुख्यान् विध्वंसयामास किरीटमाली शरैः शरीरान्तकरैः सुघोरैर् दौर्योधनं सैन्यमशेषमेव
वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः
AI Translation: And the arrows released by Vikartana in the midst of the army, Those arrows of the Pandava, like rain drops released by the clouds, approached him,
स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण
AI Translation: He killed Bhimasena, Janardana, and the crested one, who performed superhuman deeds, with three arrows each. The mighty one, having killed them, roared a terrible roar with a
स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह
M. N. Dutt: Then the diadem-adorned (Arjuna) beholding Bhimsena and Janardana thus struck and himself being also pierced lost all patience and again shot eighteen shafts.
सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम्
M. N. Dutt: Piercing Susena with one, Shalya with four and Karna with three, he with the other ten slew Sabhapati (a Kanrada prince) who was cased in a golden armour.
स राजपुत्रो विशिरा विबाहु;र्विवाजिसूतो विधनुर्विकेतुः ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः
M. N. Dutt: That prince fell down dead from the front of his car, bereft of his head, arms, his steeds and banner like a Shala tree hewed down with the axe.
पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा चतुःशतान्द्विरदान्सायुधीया;न्हत्वा रथानष्टशतं जघान सहस्रमश्वांश्च पुनश्च सादी;नष्टौ सहस्राणि च पत्तिवीरान्
M. N. Dutt: Again striking Karna with three, eight, twelve, four and ten shafts he put four hundred armed elephants and eight hundred carwarriors to death.
Supplementary Passages:
8.65.30 After 30, N T2 ins.: *1063 कर्णं ससूतं सरथाश्वकेतुम् अदृश्यमञ्जोगतिभिश्च चक्रे ततोऽक्रोशन्कुरवो वध्यमाना धनंजयेनाधिरथिं समन्तात् मुञ्चाभिविद्ध्यार्जुनमाशु कर्ण बाणैः पुरा हन्ति कुरून्समग्रान् स चोदितः सर्वयत्नेन कर्णो मुमोच बाणान्सुबहूनभीक्ष्णम् ते पाण्डुपाञ्चालगणान्निजघ्नुर् मर्मच्छिदः शोणितमांसदिग्धाः तावुत्तमौ सर्वधनुर्धराणां महाबलौ सर्वसपत्नसाहौ निजघ्नतुश्चाहितसैन्यमुग्राव् अन्योन्यमप्यस्त्रविदौ महास्त्रैः अथोपयातस्त्वरितो दिदृक्षुर् मन्त्रौषधाभ्यां विरुजो विशल्यः कृतः सुहृद्भिर्भिषजां वरिष्ठैर् युधिष्ठिरस्तत्र सुवर्णवर्मा तत्रोपयातं युधि धर्मराजं दृष्ट्वा मुदा सर्वभूतान्यनन्दन् राहोर्विमुक्तं विमलं समग्रं चन्द्रं यथैवाभ्युदितं तथैव After line 16, K4 T2 ins.: *1064 नासत्यदस्रात्रिसुतोद्भवाद्यैर् अष्टाङ्गविद्याश्रममुद्वहद्भिः आबद्धपट्टो व्रणलाघवेन यथा सुरेशो दितिजैः क्षताङ्गः
दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ कर्णं च पार्थं च नियम्य वाहा;न्खस्था महीस्थाश्च जनावतस्थुः
M. N. Dutt: All the gods in heaven and persons of the earth, checking the animals they were riding upon, waited calmly to see the issue of the fight between those great heroes, Karna and Partha, who were the choicest of warriors and scorchers of enemies.
Supplementary Passages:
8.65.31 After 31, N T2 ins.: *1065 स कार्मुकज्यातलसंनिपातः सुमुक्तबाणस्तुमुलो बभूव घ्नतोस्तथान्योन्यमिषुप्रवैकैर् धनंजयस्याधिरथेश्च राजन्
ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन
M. N. Dutt: At last that string of the bow of the son of Pandu being drawn with great might suddenly snapped with a great noise; in the meantime the son of Suta struck Partha with hundred small arrows adorned with feathers.
निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै;स्तैलप्रधौतैः खगपत्रवाजैः षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त
AI Translation: With arrows that were like serpents, sharp, and polished with oil, and with the speed of a bird's wing, He pierced Vasudeva with sixty iron arrows. The Somanakas
Supplementary Passages:
8.65.33 Dn1 ins. after 33: T2 after the first occurrence of 33cd: *1066 पूषात्मजो मर्मसु निर्बिभेद मरुत्सुतं चायुतशः शराग्रैः कृष्णं च पार्थं च तथा ध्वजं च पार्थानुजान्सोमकान्पातयंश्च Dn1 T2 cont.: Ś K V1 B Da1 D1-8 ins. after 33: *1067 प्राच्छादयंस्ते निशितैः पृषत्कैर् जीमूतसंघा नभसीव सूर्यम् आगच्छतस्तान्विशिखैरनेकैर् व्यष्टम्भयत्सूतपुत्रः कृतास्त्रः तैरस्तमस्त्रं विनिहत्य सर्वं जघान तेषां रथवाजिनागान् तथा तु सैन्यप्रवरांश्च राजन्न् अभ्यर्दयन्मार्गणैः सूतपुत्रः ते भिन्नदेहा व्यसवो निपेतुः कर्णेषुभिर्भूमितले स्तनन्तः क्रुद्धेन सिंहेन यथाश्वयूथ्या महाबला भीमबलेन तद्वत् पुनश्च पाञ्चालवरास्तथान्ये तदन्तरं कर्णधनंजयाभ्याम् प्रस्कन्दन्तो बलिनः साधुमुक्तैः कर्णेन बाणैर्निहताः प्रसह्य जयं तु मत्वा विपुलं त्वदीयास् तलान्निजघ्नुः सिंहनादांश्च नेदुः सर्वे ह्यमन्यन्त वशे कृतौ तौ कर्णेन कृष्णाविति ते विनेदुः T1 G M ins. after 33: T2 after the repetition of 33cd: *1068 ततो नवज्यां सुदृढां किरीटी स्वबाहुविक्षेपणजां प्रगृह्य समाददे गाण्डिवे क्षिप्रकारी निमेषमात्रेण महाधनुष्मान् ज्याच्छेदनं ज्याविधानं च तस्य नैवावबुध्यत्सूतपुत्रो लघुत्वात् पार्थस्य संख्ये द्विषतां निहन्तुस् तदद्भूतं तत्र बभूव राजन्
ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् न पक्षिणः संपतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे
M. N. Dutt: Then Partha, though badly mangled by many arrows, became filled with rage and bending his bowstring soO11 cut-off the shafts of the son of Adhiratha and again attached the Kauravas in the battle.
Supplementary Passages:
8.65.34 For 34ab, S (T3 missing) subst.: *1069 पार्थोऽपि तां ज्यामवधाय तूर्णं शरासनज्यामाधिरथेर्विधम्य After 34cd, N T2 ins.: *1070 ज्यां चानुमृज्याभ्यहनत्तलत्रे बाणान्धकारं त्वकरोत्क्षणेन शल्यं च कर्णं च कुरूंश्च सर्वान् बाणैरविध्यद्युगपत्किरीटी After 34, N T2 ins.: *1071 वायुर्वियत्स्थैरमरैः समेत्य व्युवाह बाणानवलोकयद्भिः
शल्यं च पार्थो दशभिः पृषत्कै;र्भृशं तनुत्रे प्रहसन्नविध्यत् ततः कर्णं द्वादशभिः सुमुक्तै;र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत्
M. N. Dutt: Them, smiling, Partha shot with great force ten shafts against Shalya's armour and struck Karna first with twelve and then with another seven arrows.
स पार्थबाणासनवेगनुन्नै;र्दृढाहतः पत्रिभिरुग्रवेगैः विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः
AI Translation: Struck by the arrows of Partha, shot with great force, he was struck hard by arrows of great force. With his body pierced and his limbs smeared with blood, Karna shone like Rudra with his bow drawn.
Supplementary Passages:
8.65.36 After 36, K4 V1 B D (except D2.8) ins.: *1072 प्रक्रीडमानोऽथ श्मशानमध्ये रौद्रे मुहूर्ते रुधिरार्द्रगात्रः
ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनंजयम् शरांस्तु पञ्च ज्वलितानिवोरगा;न्प्रवीरयामास जिघांसुरच्युते
M. N. Dutt: Then the of Adhiratha struck Dhananjaya, who was looking like the king of Heaven (Indra) with three arrows and shot five other burning shafts like snakes for the purpose of killing Krishna.
ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः
M. N. Dutt: Those well-directed and mighty shafts, winged with gold, after piercing the armour of that noblest of human beings, entered the earth and having bathed (in the water of Bhogavati) again return towards Karna.
तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै;स्त्रिधा त्रिधैकैकमथोच्चकर्त धनंजयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः
M. N. Dutt: Dhananjaya then with ten well-aimed and flat edged shafts, cut each of them into three pieces and thus those five great snakes (friends of the Asvasena the son of Taksha) fell to the earth.
ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः मर्मस्वविध्यत्स चचाल दुःखा;द्धैर्यात्तु तस्थावतिमात्रधैर्यः
AI Translation: Then the diademed one blazed forth, as if the fire were consuming the armpit with anger. He pierced Karna in the vital parts with arrows that were shot from his ear, that
Supplementary Passages:
8.65.40 After 40ab, N ins.: *1073 तथा विनुन्नाङ्गमवेक्ष्य कृष्णं सर्पेषुभिः कर्णभुजप्रसृष्टैः After 40, S (T3 missing) ins.: *1074 प्रादुश्चकाराथ शरान्महात्मा देहं विचिन्वन्निव सूतजस्य शरास्तु ते काञ्चनचित्रपुङ्खाः संपेतुरुर्व्यां शतशो महान्तः
ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् अदृश्य आसीत्कुपिते धनंजये; तुषारनीहारवृतं यथा नभः
M. N. Dutt: O monarch, Dhananjaya, becoming angry, by his arrows covered all the sides of Karna's car; even the rays of the sun became invisible and the sky looked hazy as in a frosty day.
स चक्ररक्षानथ पादरक्षा;न्पुरःसरान्पृष्ठगोपांश्च सर्वान् दुर्योधनेनानुमतानरिघ्ना;न्समुच्चितान्सुरथान्सारभूतान्
AI Translation: He had the Cakrarakshas, the Padarakshas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas, the Purushas,
Supplementary Passages:
8.65.42 After 42ab, S (T3 missing) ins.: *1075 भीता द्रवन्ति स्म निहन्यमाना महेषुभिः पार्थकरप्रणुन्नैः ततोऽर्जुनो वै भरतप्रवीरो महानुभावः समरे निहन्ता
द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् क्षणेन सर्वान्सरथाश्वसूता;न्निनाय राजन्क्षयमेकवीरः
AI Translation: The bull among the Kurus, the left-handed archer, killed in battle two thousand of the best of the Kurus. In an instant, O king, the single hero led all of them, with their chariots, horses and charioteers, to destruction.
अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च
M. N. Dutt: Then the remnants of the Kaurava army with your sons fled on all directions leaving Karna and even the wounded father and son fled leaving each other in the field.
Supplementary Passages:
8.65.44 After 44, S (T3 missing, T2 om. lines 1-8) ins.: *1076 सर्वे प्रणेशुः कुरवो विहीनाः पार्थेषुभिः संपरितप्यमानाः सुयोधनेनाथ पुनर्वरिष्ठाः प्रचोदिताः कर्णरथानुयाने भोः क्षत्रियाः शूरतमाश्च सर्वे क्षात्रे च धर्मे निरताः स्थ यूयम् न युक्तरूपं भवतां समीपात् पलायनं कर्णमभिप्रहाय तवात्मजेनापि तथोच्यमानाः पार्थेषुभिः संपरितप्यमानाः नैवावतिष्ठन्त भयाद्विवर्णाः क्षणेन नष्टाः प्रदिशो दिशश्च
स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत्
M. N. Dutt: But the great warrior Karna, O King, seeing himself abandoned on all sides and left alone, was not at all afraid but pushed on against Arjuna with a brave heart and with energy.
Supplementary Passages:
8.65.45 After 45c, T2 ins.: *1077 महारथः सूतपुत्रस्तथापि